________________
जीव निर्णाशयति तदा विगृह्णाति तेन मा विजयते तावन्न
उपमितौ ष. ६-प्र.
राज्यस्य सुखदुःख
हेतुता
॥५८४॥
&“यथेच्छया करोत्यकिंचित्करं संसारिजीवं निर्णाशयति तद्बलं भवति स्वयमेव तत्र संसारिजीवमहाराज्ये प्रभुरिति । यदा तु कथंचित्सं
"सारिजीवस्तदात्मीयं राज्यं बलं समृद्धि स्वरूपं च लक्षयेत् तदा विगृह्णाति तेन महामोहेन सार्धमुत्कर्षयति निजबलं वर्धयति ससमृद्धि “विग्रहारूढश्च बहुशो महामोहं विजयतेऽनेकशो महामोहेनाप्यसौ विजीयते यावन्मानं यदा विजयते तावन्मानं तदा सुखमाप्नोति याव"न्मानं यदा विजीयते तावन्मात्रं तदा दुःखमास्कन्दति",यदा तु वीर्यमाप्नोति, सङ्ग्रामाभ्यासयोगतः। भद्र! संसारिजीवोऽसावचिन्त्यमतुलं किल ॥ ३६८ ॥ तदा निःशेषमुन्मूल्य, महामोहपुरःसरम् । शत्रुवर्ग समाप्नोति, राज्यं निष्कण्टकं हि सः ॥ ३६९ ।। ततो | विगतचित्तोऽसौ, सततानन्दपूरितः । ललमानः सुखेनास्ते, साम्राज्यं प्राप्य सुन्दरम् ॥ ३७० ॥ तदेवं तस्य तद्राज्यं, कारणं सुखदुःखयोः । पालनापालनाज्जातमेकमेव न संशयः ॥३७१॥ सुखदुःखनिमित्तस्य, सामान्यस्य तदीदृशी । तस्यान्तरङ्गराज्यस्य, सामग्री भद्र ! कीर्तिता ॥ ३७२ ।। अप्रबुद्धेनोक्तं-भदन्त ! किमधुना तस्य संसारिजीवस्य सौराज्यं किं वा दौराज्यमिति ?, सिद्धान्तः प्राह-भद्रात्र | प्रस्तावे तावत्तस्य दौराज्यं वर्तते, न जानीते वराकोऽद्यापि संसारिजीवस्तदात्मीयं राज्यं न बलं न समृद्धिं नापि स्वरूपमिति, स हि तपस्वी संसारिजीवो बहिरङ्गेषु देशेषु दुःखसागरावगाढो मैथुनसागराभ्यामधुना भ्राम्यते, तत्पुनस्तस्य सम्बन्धि चारित्रधर्मादिकं समस्तमपि महाबलं महामोहादिशत्रुभिर्निरुद्धमास्ते । अप्रबुद्धेनोक्तं श्रुतं तावदिदं मया सामान्येनैकरूपं सुखदुःखकारणं तदन्तरङ्गराज्य, अथ यदुक्तं भगवता यथा तदेव विशेषेणानेकरूपमिति तदधुना श्रोतुमिच्छामि, सिद्धान्तेनोक्तं-आकर्णय-स कर्मपरिणामाख्यो, यो मया वर्णितः पुरा । स प्रमाणं कृतस्तेन, राज्ञा सर्वेषु कर्मसु ॥ ३७३ ॥ ततश्च-इदमेव महाराज्यं, परिपूर्ण पृथक् पृथक् । सर्वेभ्यो | निजपुत्रेभ्यः, स ददाति यथेच्छया ॥ ३७४ ॥ सूनवस्तस्य चानन्तास्तेभ्यस्तद्दत्तमुच्चकैः । अनेकरूपतां याति, राज्यं पात्रविशेषतः
| ॥५८४॥
Jain Education
Code
For Private & Personel Use Only
www.jainelibrary.org