SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ उपमितौ प.६-प्र. ॥५८३॥ “सश्चरटाः सन्तीन्द्रियनामानस्तस्कराः परिभ्रमन्ति कषायरूपा लूषकाः विचरन्ति नोकषायाख्या लुण्टाकाः उपप्लवन्ते परीषहाह्वाश्चार- राज्यस्य "भटाः संभवन्त्युपसर्गाभिधाना दुष्टभुजङ्गाः विलसन्ति प्रमादनामकाः षिङ्गाः” तेषां च सर्वेषां द्वौ भ्रातरौ सर्वप्रधानौ-कर्मपरि- |सुखदुःखणामो महामोहश्च, एतौ चात्यन्तदर्पिष्ठी, समृद्धौ रणशालिनौ । चतुरङ्गबलोपेतौ, भटकोटिभिरावृतौ ॥ ३६५ ॥ ततश्चेमौ मन्येते, हेतुता यदुत-कोऽयं संसारिजीवोऽत्र, को वा चारित्रधर्मकः । आवयोर्भुक्तिभूरेषा, चित्तवृत्तिर्महाटवी ॥ ३६६ ॥ अस्मदीयमिदं राज्यं, नास्त्यन्यः परिपन्थिकः । स कर्मपरिणामाख्यस्ततो राजा व्यवस्थितः ॥ ३६७ ॥ निवेशितानि राजसचित्ततामसचित्तरौद्रचित्तपुरादीनि | भिल्लपल्लिप्रायाणि नानाविधनगराणि, प्रस्थापितस्तेषु महामोहनरेन्द्रः समर्पितं तस्य चतुरङ्गं बलं व्यवस्थापिता समस्ता राज्यनीतिः न्यस्तः समस्तोऽपि महामोहे राज्यभारः, स्वयं पुनरसौ कर्मपरिणामः सह महादेव्या कालपरिणत्या मनुजगतौ संसाराभिधानं नाटकं पश्यन्नास्ते, केवलं स कर्मपरिणामो जानन्निव संसारिजीवमहाराजवीर्यमाकलयन्निव चारित्रधर्मप्रतिनायकसामर्थ्य लक्षयन्निव सद्बोधमश्रिमशक्ति र परिच्छिन्दन्निव सम्यग्दर्शनमहत्तमबलं निश्चिन्वन्निव सन्तोषतत्रपालव्यवसायं पश्यन्निव शुभाशयाद्यनेकभटकोटियुक्तचतुरङ्गबलोत्साहं ना-13 त्यन्तनिरपेक्षः संसारिजीवराज्येऽपेक्षते चायतिं कुरुते चारित्रधर्मादीनामनुवर्तनं दर्शयत्यात्मभावं वर्धयति प्रीतिं संपादयति कानिचि-11 सुन्दरप्रयोजनानि, ततस्तैरपि चारित्रधर्मादिभिर्मध्यस्थोऽयमितिकृत्वा गृहीतोऽसौ कर्मपरिणामः स्वामिबुद्ध्या, जातः संसारिजीवम-IN हाराजस्यापि प्रष्टव्यस्थाने, महामोहः पुनर्निजभुजबलावलेपेन संसारिजीवं चारित्रधर्मादिकं तावदलं न तृणतुल्यं मन्यते, ततो "यावन्न "जानीते संसारिजीवस्तदात्मीयं महाराज्यं न लक्षयति तचतुरङ्गं महाबलं न वेदयते तां महासमृद्धिं नो कलयत्यात्मनः परमेश्वरता ॥ ५८३॥ "तावदसौ महामोहो लब्धावसरश्चरटवृन्दपरिकरितः समाजामति समस्तां तां राजभुक्तिं स्वीकरोति निःशेषनगरपामाकरादीन् विलसति Jain Education Inter For Private & Personel Use Only How.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy