SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-अ. राज्यस्य सुखदुःख हेतुता ॥५८२॥ ननु प्रत्यक्षविरुद्धमिदं, यतः स्वल्पतराणामिह जीवानां राज्यमुपलभ्यते यावता सर्वेऽपि जीवाः सुखं दुःखं चानुभवन्तो दृश्यन्ते, सिद्धान्ते-18 नोक्तं-भद्र! न बहिरङ्गमिदं राज्यं यत्सुखदुःखयोः कारणं, किं तर्हि ? अन्तरङ्ग, तच्च सर्वेषां संसारोदरविवरवर्तिनां जीवानामस्त्येव, ततो ये जीवास्तत्सम्यक् पालयन्ति तेषां सुखं संपादयति, ये तु दुष्पालितं तद्राज्यं कुर्वन्ति तेषां दुःखं जनयति, ततो नास्ति प्रत्यक्षविरोधः, अप्रबुद्धः प्राह-भदन्त! तत् किमेकरूपं राज्यं किं वाऽनेकरूपं ?, सिद्धान्तेनोक्तं—सामान्येनैकरूपं विशेषेण पुनरनेकरूपं, अप्रबुद्धः प्राह—यद्येवं ततस्तत्र सामान्यराज्ये तावत्को राजा कः कोशः किं बलं काऽत्र भूमिः के देशाः का वा सामग्रीति श्रोतुमिच्छामि, सिद्धान्तेनोक्तं-भद्राकर्णय-सर्वस्याधारभूतोऽस्य, राज्यभारस्य सुन्दर! । एकः संसारिजीवोऽत्र, महाराजो निगद्यते ॥ ३५९ ।। कोशस्तत्र महाराज्ये, भाविकै रबराशिभिः । परिपूर्णः शमध्यानज्ञानवीर्यादिभिः परैः ॥ ३६० ।। भुवनानन्दसन्दोहदायकं चात्र सुन्दरम् । क्षीरनीरधिसङ्काशं, चतुरङ्गं महाबलम् ।। ३६१ ॥ तत्र च महासैन्ये गाम्भीयौदार्यशौर्यादयः स्यन्दनाः यशःसौष्ठवसौजन्यप्रश्रयादयः करिवराः बुद्धिपाटववाग्ग्मित्वनैपुण्यादयस्तुरङ्गमाः अचापलसौमनस्यमनस्वित्वदाक्षिण्यादयः पदातिवर्गाः संसारिजीवमहाराजहितकारी | चतुर्मुखश्चारित्रधर्मनामा प्रतिनायकः, तस्य च सम्यग्दर्शनो नाम महत्तमः सद्बोधो मत्री यतिधर्मगृहिधौं सुतौ सन्तोषस्तनपालः शु|भाशयादयो महाभटाः, अपि च–संसारिजीवराजेन, सौराज्ये प्रकटीकृतम् । चतुरङ्ग महासैन्यं, कस्तद्वर्णयितुं क्षमः ॥ ३६२ ॥ अनन्तगुणसम्भारगौरवं तस्य सुन्दरम् । स एव विमलीभूतः, केवलं यदि बुध्यते ॥ ३६३ ॥ भूमिस्तत्र महाराज्ये, चित्तवृत्तिर्महाटवी । सर्वाधारतया (यस्मात् गुणदाऽतोऽत्र ) वर्तते ॥ ३६४ ॥ तस्यां निविष्टानि सात्त्विकचित्तजैनपुरविमलमानसशुभ्रचित्तादीनि नानारू-18 पाणि नगराणि, तद्नुकारिणो प्रामाकरादयः तदुपलक्षिता विविधरूपा देशाः, "तस्यां च राज्यभुक्तिभूमौ विद्यन्ते घातिकमसंज्ञा भूयां ॥५८२॥ Jain Education Inte For Private & Personal Use Only KMjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy