________________
उपमितौ प. ६-अ.
राज्यस्य सुखदुःख
हेतुता
॥५८२॥
ननु प्रत्यक्षविरुद्धमिदं, यतः स्वल्पतराणामिह जीवानां राज्यमुपलभ्यते यावता सर्वेऽपि जीवाः सुखं दुःखं चानुभवन्तो दृश्यन्ते, सिद्धान्ते-18 नोक्तं-भद्र! न बहिरङ्गमिदं राज्यं यत्सुखदुःखयोः कारणं, किं तर्हि ? अन्तरङ्ग, तच्च सर्वेषां संसारोदरविवरवर्तिनां जीवानामस्त्येव, ततो ये जीवास्तत्सम्यक् पालयन्ति तेषां सुखं संपादयति, ये तु दुष्पालितं तद्राज्यं कुर्वन्ति तेषां दुःखं जनयति, ततो नास्ति प्रत्यक्षविरोधः, अप्रबुद्धः प्राह-भदन्त! तत् किमेकरूपं राज्यं किं वाऽनेकरूपं ?, सिद्धान्तेनोक्तं—सामान्येनैकरूपं विशेषेण पुनरनेकरूपं, अप्रबुद्धः प्राह—यद्येवं ततस्तत्र सामान्यराज्ये तावत्को राजा कः कोशः किं बलं काऽत्र भूमिः के देशाः का वा सामग्रीति श्रोतुमिच्छामि, सिद्धान्तेनोक्तं-भद्राकर्णय-सर्वस्याधारभूतोऽस्य, राज्यभारस्य सुन्दर! । एकः संसारिजीवोऽत्र, महाराजो निगद्यते ॥ ३५९ ।। कोशस्तत्र महाराज्ये, भाविकै रबराशिभिः । परिपूर्णः शमध्यानज्ञानवीर्यादिभिः परैः ॥ ३६० ।। भुवनानन्दसन्दोहदायकं चात्र सुन्दरम् । क्षीरनीरधिसङ्काशं, चतुरङ्गं महाबलम् ।। ३६१ ॥ तत्र च महासैन्ये गाम्भीयौदार्यशौर्यादयः स्यन्दनाः यशःसौष्ठवसौजन्यप्रश्रयादयः करिवराः बुद्धिपाटववाग्ग्मित्वनैपुण्यादयस्तुरङ्गमाः अचापलसौमनस्यमनस्वित्वदाक्षिण्यादयः पदातिवर्गाः संसारिजीवमहाराजहितकारी | चतुर्मुखश्चारित्रधर्मनामा प्रतिनायकः, तस्य च सम्यग्दर्शनो नाम महत्तमः सद्बोधो मत्री यतिधर्मगृहिधौं सुतौ सन्तोषस्तनपालः शु|भाशयादयो महाभटाः, अपि च–संसारिजीवराजेन, सौराज्ये प्रकटीकृतम् । चतुरङ्ग महासैन्यं, कस्तद्वर्णयितुं क्षमः ॥ ३६२ ॥ अनन्तगुणसम्भारगौरवं तस्य सुन्दरम् । स एव विमलीभूतः, केवलं यदि बुध्यते ॥ ३६३ ॥ भूमिस्तत्र महाराज्ये, चित्तवृत्तिर्महाटवी । सर्वाधारतया (यस्मात् गुणदाऽतोऽत्र ) वर्तते ॥ ३६४ ॥ तस्यां निविष्टानि सात्त्विकचित्तजैनपुरविमलमानसशुभ्रचित्तादीनि नानारू-18 पाणि नगराणि, तद्नुकारिणो प्रामाकरादयः तदुपलक्षिता विविधरूपा देशाः, "तस्यां च राज्यभुक्तिभूमौ विद्यन्ते घातिकमसंज्ञा भूयां
॥५८२॥
Jain Education Inte
For Private & Personal Use Only
KMjainelibrary.org