SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६- प्र. ॥ ५८१ ॥ Jain Education In %%%%** तोषितो महादेव्या, काले भाविनि जातुचित् । तत्पित्रा तव मित्राय, ते कन्ये दापयिष्यते ॥ ३५५ ॥ ततो वयस्यस्ते भूयः, प्राप्स्यते परमं सुखम् । नान्यः कश्चिदुपायोऽस्ति, विमुञ्चाकुलचित्तताम् ॥ ३५६ ॥ तदाकर्ण्य मुनेर्वाक्यं मां प्रत्येष निराकुलः । संजातो हरिराजेन्द्रः, पुनरित्थमभाषत ॥ ३५७ || भदन्त ! यदुक्तं भगवता यथा तेन धनशेखरेण पापमैथुनसागरदोषात्तादृशं कर्माचरितं स्वरूपेण पुनर्भद्रकोऽसौ धनशेखर इति, तत्र ममायमधुना वितर्को, यथा— किं स्वरूपेण निर्मलः परदोषेणापि दुष्टः पुरुषो भवति ?, सूरिणोक्तं - महाराज ! भवत्येव, तथाहि — द्विविधोऽत्र लोको - बहिरङ्गोऽन्तरङ्गश्च तत्र बहिरङ्गलोकदोषाः पुरुषस्य लगन्ति वा न वा, अन्तरङ्ग - लोकदोषाः पुनर्लगन्त्येव — तत्रान्तरङ्गलोकानां, दोषकारित्वसूचकम् । आकर्णय महाराज !, कथयिष्ये कथानकम् ॥ ३५८ ॥ नृपतिराह — निवेदयतु भगवान्, सूरिणोक्तं प्रतीतमेव तावदिदं भवादृशां यथा कर्मपरिणाममहाराजस्य कालपरिणतेश्च महादेव्याः सम्बन्धीन्यपत्यानि दुर्जनचक्षुर्दोषभयादविवेकादिभिर्मब्रिभिर्भुवने गोपितानीति, इतश्चास्ति शुद्धसत्यवादी समस्तसत्त्वसङ्घातहितकारी सर्वभावस्वभाववेदी तयोः कालपरिणतिकर्मपरिणामयोर्देवीनृपयोः समस्त रहस्यस्थानेष्वत्यन्तभेदज्ञः सिद्धान्तो नाम परमपुरुषः, तस्य चाप्रबुद्धो नाम संपन्नो विनेयः, स च तं पप्रच्छ — भगवन्निह पुरुषस्य किमिष्टं किं वाऽनिष्टमिति ?, सिद्धान्तः प्राह - भद्र! सुखं पुरुषस्येष्टं दुःखं पुनरनिष्टमिति, सुखार्थं हि सर्वे पुरुषाः प्रवर्तन्ते दुःखान्तु सर्वे निवर्तन्त इति, अप्रबुद्धः प्राह — भदन्त ! किं पुनस्तस्य सुखस्य कारणं किं वा दु:खस्य ?, सिद्धान्तेनोक्तं राज्यं सुखस्य कारणं तदेव च दुःखस्य, अप्रबुद्धः प्राह — भदन्त ! एकमेव द्वयस्यापि कारणं ननु विरुद्धमिदं, सिद्धान्तेनोक्तं- नास्त्यत्र विरोधः, यतः सुपालितं तत्सुखस्य कारणं दुष्पालितं तदेव दुःखस्येति, अप्रबुद्धः प्राह — किं राज्य मेव सुखदुःखयोः कारणं नापरं किंचिदपि ?, सिद्धान्तः प्राह वाढं राज्यमेव सुखदुःखयोः कारणं नापरं किंचिदपि, अप्रबुद्धेनोक्तं For Private & Personal Use Only राज्यस्य सुखदुःखहेतुता ॥ ५८१ ॥ www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy