SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ उपमितौ ष. ६-प्र. मित्रदुःखनाशहेतुपृच्छा ॥५८०॥ विधाप्यते ॥ ३३६ ॥ एवं तेन चतुर्ज्ञानयुक्तेन वरसूरिणा । निवेदिते तथा भद्रे!, मदीये दुष्टचेष्टिते ॥ ३३७ ॥ स हरिश्चिन्तयत्येवमहो ज्ञानं महामुनेः । अहो निपतितः केशे, वराको धनशेखरः ॥ ३३८ ॥ ततो हरिनरेन्द्रेण, करुणागतचेतसा । पृष्टः स उत्तमाचार्यः, प्रणम्येदं सुमेधसा ॥ ३३९ ॥ यथा-स ताभ्यां पापमित्राभ्यां, भदन्त ! धनशेखरः । कदा पुनर्वियुज्येत, येन स्यात्सुखभाजनम् ? ॥ ३४० ॥ सूरिरुवाच–अस्ति भोः सततानन्दं, शुभ्रचित्तं महापुरम् । विद्यते भुवनानन्दस्तत्र राजा सदाशयः ॥ ३४१ ॥ तस्य चास्ति महादेवी, लोके ख्याता वरेण्यता । तस्या द्वे कन्यके धन्ये, विद्यते चारुलोचने ॥ ३४२ ॥ एका ब्रह्मरतिर्नाम, द्वितीया मु कतोच्यते । तयोश्च गुणविस्तारं, कोऽत्र वर्णयितुं क्षमः ? ॥ ३४३ ।। तथाहि-यं नरं चारुसर्वाङ्गी, विलोकयति लीलया । लोके ब्रह्मभारतिः साध्वी, स पवित्रो निगद्यते ॥ ३४४ ।। सा हि सर्वगुणाधारा, सा वन्द्या योगिनामपि । साऽनन्तवीर्यसन्दोहदायिनीति निगद्यते ॥ ३४५ ॥ सा मैथुनाभिधानस्य, धनशेखरवैरिणः । तिष्ठतो मित्ररूपेण, केवलं नाशकारिणी ॥ ३४६ ॥ मुक्तता हि महाराज!, निःशेषगुणमन्दिरम् । अशेषदोषसंशोषकारिणी च न संशयः ॥ ३४७ ॥ विरोधोऽस्ति तया सार्ध, स्वभावेनैव सर्वदा । धनशेखरमित्रस्य, सागरस्यास्य पापिनः ॥ ३४८ ॥ तां शुद्धधर्मपूर्णाङ्गीमेष सागरनामकः । पापात्मा कन्यकां दृष्ट्वा, दूरतः प्रपलायते ॥ ३४९ ॥ एवं च |स्थिते-यदा ते कन्यके भार्ये, लप्स्यते धनशेखरः । तदाऽऽभ्यां पापमित्राभ्यां, निःसन्देहं वियोक्ष्यते ॥ ३५० ।। ललमानस्ततस्ताभ्यां, &सार्धमेष स्वलीलया । अनन्तानन्दसन्दोहभाजनं च भविष्यति ॥ ३५१ ॥ ततो हरिनरेन्द्रेण, भूयोऽपि स मुनिस्तदा । पृष्टो ललाट विन्यस्तकरकुड्मलशालिना ॥ ३५२ ॥ यथा-गुणसन्दोहसंपूर्णे, पापमित्रवियोजिके । कथं ते लप्स्यते कन्ये, भदन्त ! धनशेखरः ? ४॥३५३ ॥ सूरिणोक्तं-अन्तरङ्गो महाराजः, प्रतापाक्रान्तमण्डलः । स कर्मपरिणामाख्यः, प्रतीतो हि भवारशाम् ॥ ३५४ ॥ स का॥५८०॥ ल Jain Education inner For Private & Personel Use Only Kuww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy