SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ उपमितौ ष. ६-प्र. मित्रदुःखनाशहेतुपृच्छा ॥५८०॥ विधाप्यते ॥ ३३६ ॥ एवं तेन चतुर्ज्ञानयुक्तेन वरसूरिणा । निवेदिते तथा भद्रे!, मदीये दुष्टचेष्टिते ॥ ३३७ ॥ स हरिश्चिन्तयत्येवमहो ज्ञानं महामुनेः । अहो निपतितः केशे, वराको धनशेखरः ॥ ३३८ ॥ ततो हरिनरेन्द्रेण, करुणागतचेतसा । पृष्टः स उत्तमाचार्यः, प्रणम्येदं सुमेधसा ॥ ३३९ ॥ यथा-स ताभ्यां पापमित्राभ्यां, भदन्त ! धनशेखरः । कदा पुनर्वियुज्येत, येन स्यात्सुखभाजनम् ? ॥ ३४० ॥ सूरिरुवाच–अस्ति भोः सततानन्दं, शुभ्रचित्तं महापुरम् । विद्यते भुवनानन्दस्तत्र राजा सदाशयः ॥ ३४१ ॥ तस्य चास्ति महादेवी, लोके ख्याता वरेण्यता । तस्या द्वे कन्यके धन्ये, विद्यते चारुलोचने ॥ ३४२ ॥ एका ब्रह्मरतिर्नाम, द्वितीया मु कतोच्यते । तयोश्च गुणविस्तारं, कोऽत्र वर्णयितुं क्षमः ? ॥ ३४३ ।। तथाहि-यं नरं चारुसर्वाङ्गी, विलोकयति लीलया । लोके ब्रह्मभारतिः साध्वी, स पवित्रो निगद्यते ॥ ३४४ ।। सा हि सर्वगुणाधारा, सा वन्द्या योगिनामपि । साऽनन्तवीर्यसन्दोहदायिनीति निगद्यते ॥ ३४५ ॥ सा मैथुनाभिधानस्य, धनशेखरवैरिणः । तिष्ठतो मित्ररूपेण, केवलं नाशकारिणी ॥ ३४६ ॥ मुक्तता हि महाराज!, निःशेषगुणमन्दिरम् । अशेषदोषसंशोषकारिणी च न संशयः ॥ ३४७ ॥ विरोधोऽस्ति तया सार्ध, स्वभावेनैव सर्वदा । धनशेखरमित्रस्य, सागरस्यास्य पापिनः ॥ ३४८ ॥ तां शुद्धधर्मपूर्णाङ्गीमेष सागरनामकः । पापात्मा कन्यकां दृष्ट्वा, दूरतः प्रपलायते ॥ ३४९ ॥ एवं च |स्थिते-यदा ते कन्यके भार्ये, लप्स्यते धनशेखरः । तदाऽऽभ्यां पापमित्राभ्यां, निःसन्देहं वियोक्ष्यते ॥ ३५० ।। ललमानस्ततस्ताभ्यां, &सार्धमेष स्वलीलया । अनन्तानन्दसन्दोहभाजनं च भविष्यति ॥ ३५१ ॥ ततो हरिनरेन्द्रेण, भूयोऽपि स मुनिस्तदा । पृष्टो ललाट विन्यस्तकरकुड्मलशालिना ॥ ३५२ ॥ यथा-गुणसन्दोहसंपूर्णे, पापमित्रवियोजिके । कथं ते लप्स्यते कन्ये, भदन्त ! धनशेखरः ? ४॥३५३ ॥ सूरिणोक्तं-अन्तरङ्गो महाराजः, प्रतापाक्रान्तमण्डलः । स कर्मपरिणामाख्यः, प्रतीतो हि भवारशाम् ॥ ३५४ ॥ स का॥५८०॥ ल Jain Education inner For Private & Personel Use Only Kuww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy