SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६. ॥५७९॥ च्छया । न च संपद्यतेऽभीष्टं, किंचित्पुण्योदयं विना ॥ ३१८ ॥ एवं विविधदेशेषु, दुःखसङ्घातपीडितः । मैथुनेच्छापरीतोऽहं, हरिराजस्य बम्भ्रमीमि धनाशया ॥ ३१९ ॥ इतनानन्दनगरे. तेन भरिंगणाकरः । दृष्टो हरिनरेन्द्रेण, सूरिरुत्तमनामकः ॥ ३२०॥ सत्साधु-II उत्तमसूसङ्घमध्यस्थमथोद्याने मनोरमे । दृष्ट्वा तमुत्तमाचार्य, हरिस्तोषमुपागतः ॥ ३२१॥ ततश्च–सहितो राजवृन्देन, तं मुनि स नरेश्वरः ।। रिसमा. वन्दित्वा सपरीवारं, निषण्णः शुद्धभूतले ॥ ३२२ ॥ ततो भगवता तेषाममृतास्वादनोपमा । सर्वेषामेव जन्तूनां, विहिता धर्मदेशना गमः ॥ ३२३ ॥ ततो भगवतो वाक्यमाकर्ण्य स महीपतिः । अत्यन्तं रञ्जितश्चित्ते, ततश्चेदमचिन्तयत् ।। ३२४ ।। सूक्ष्मव्यवहितातीतभाविभावेषु भूरिषु । नूनं भगवतो ज्ञानमस्य सर्वेषु विद्यते ॥ ३२५ ॥ तदेनं प्रश्नयाम्यद्य, सूरिं किं तत्र कारणम् ? । येनाहं प्रेरितस्तेन, मित्रदुःखवयस्येन जले तदा ॥ ३२६ ॥ वल्लभोऽहं पुरा तस्य, स च मे धनशेखरः । किं पुनः क्षणमात्रेण, तेन तादृग् विचेष्टितम् ? ॥ ३२७ ॥ नाशहेतु| किं वा रुष्टः स देवोऽस्य, कस्मादास्फोटितस्तथा । किं जीवति मृतो वा मे, वयस्यो धनशेखरः। ॥ ३२८ ॥ यावत्स चिन्तयत्येवं, चेतसा हरिपार्थिवः । तावद्विज्ञाय तत्सर्व, सूरिरित्थमवोचत ॥ ३२९ ॥ यञ्चिन्तितं त्वया भूप!, किं पुनस्तत्र कारणम् । वत्सलेनापि मित्रेण, यदहं प्रेरितो जले ॥ ३३०॥ तत्राकर्णय-अन्तरङ्गो हि विद्येते, तस्य सागरमैथुनौ । वयस्यौ स तयोर्दोषो, नैव तस्य तप-15 खिनः ॥ ३३१ ॥ स हि चारुः स्वरूपेण, भद्रको धनशेखरः । ताभ्यां पापवयस्याभ्यां, केवलं क्रियतेऽन्यथा ॥ ३३२ ॥ तथाहितस्य वराकस्य धनशेखरस्य-मयूरमजरी भुजे, मैथुनेन कृता मतिः । हरामि रत्नबोहित्थं, सागरेण कृतं मनः ॥ ३३३ ।। ततश्च तद्वशात्तेन, प्रेरितस्त्वं तथा जले । अत एव गतः कोपं, समुद्राधिपतिस्तदा ।। ३३४ ॥ तेन त्वं रक्षितो नीतः, स पातालतलं तथा ।|3|| ॥ ५७९॥ तथापि न मृतस्तीर्णः, समुद्रं धनशेखरः ॥ ३३५ ॥ अधुनाऽनेकदेशेषु, नानारूपा विडम्बनाः । ताभ्यां पापवयस्याभ्यां, स वराको Jain Education Interior For Private & Personel Use Only Www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy