________________
उपमितौ प. ६.
॥५७९॥
च्छया । न च संपद्यतेऽभीष्टं, किंचित्पुण्योदयं विना ॥ ३१८ ॥ एवं विविधदेशेषु, दुःखसङ्घातपीडितः । मैथुनेच्छापरीतोऽहं,
हरिराजस्य बम्भ्रमीमि धनाशया ॥ ३१९ ॥ इतनानन्दनगरे. तेन भरिंगणाकरः । दृष्टो हरिनरेन्द्रेण, सूरिरुत्तमनामकः ॥ ३२०॥ सत्साधु-II उत्तमसूसङ्घमध्यस्थमथोद्याने मनोरमे । दृष्ट्वा तमुत्तमाचार्य, हरिस्तोषमुपागतः ॥ ३२१॥ ततश्च–सहितो राजवृन्देन, तं मुनि स नरेश्वरः ।।
रिसमा. वन्दित्वा सपरीवारं, निषण्णः शुद्धभूतले ॥ ३२२ ॥ ततो भगवता तेषाममृतास्वादनोपमा । सर्वेषामेव जन्तूनां, विहिता धर्मदेशना
गमः ॥ ३२३ ॥ ततो भगवतो वाक्यमाकर्ण्य स महीपतिः । अत्यन्तं रञ्जितश्चित्ते, ततश्चेदमचिन्तयत् ।। ३२४ ।। सूक्ष्मव्यवहितातीतभाविभावेषु भूरिषु । नूनं भगवतो ज्ञानमस्य सर्वेषु विद्यते ॥ ३२५ ॥ तदेनं प्रश्नयाम्यद्य, सूरिं किं तत्र कारणम् ? । येनाहं प्रेरितस्तेन, मित्रदुःखवयस्येन जले तदा ॥ ३२६ ॥ वल्लभोऽहं पुरा तस्य, स च मे धनशेखरः । किं पुनः क्षणमात्रेण, तेन तादृग् विचेष्टितम् ? ॥ ३२७ ॥
नाशहेतु| किं वा रुष्टः स देवोऽस्य, कस्मादास्फोटितस्तथा । किं जीवति मृतो वा मे, वयस्यो धनशेखरः। ॥ ३२८ ॥ यावत्स चिन्तयत्येवं,
चेतसा हरिपार्थिवः । तावद्विज्ञाय तत्सर्व, सूरिरित्थमवोचत ॥ ३२९ ॥ यञ्चिन्तितं त्वया भूप!, किं पुनस्तत्र कारणम् । वत्सलेनापि मित्रेण, यदहं प्रेरितो जले ॥ ३३०॥ तत्राकर्णय-अन्तरङ्गो हि विद्येते, तस्य सागरमैथुनौ । वयस्यौ स तयोर्दोषो, नैव तस्य तप-15 खिनः ॥ ३३१ ॥ स हि चारुः स्वरूपेण, भद्रको धनशेखरः । ताभ्यां पापवयस्याभ्यां, केवलं क्रियतेऽन्यथा ॥ ३३२ ॥ तथाहितस्य वराकस्य धनशेखरस्य-मयूरमजरी भुजे, मैथुनेन कृता मतिः । हरामि रत्नबोहित्थं, सागरेण कृतं मनः ॥ ३३३ ।। ततश्च तद्वशात्तेन, प्रेरितस्त्वं तथा जले । अत एव गतः कोपं, समुद्राधिपतिस्तदा ।। ३३४ ॥ तेन त्वं रक्षितो नीतः, स पातालतलं तथा ।|3||
॥ ५७९॥ तथापि न मृतस्तीर्णः, समुद्रं धनशेखरः ॥ ३३५ ॥ अधुनाऽनेकदेशेषु, नानारूपा विडम्बनाः । ताभ्यां पापवयस्याभ्यां, स वराको
Jain Education Interior
For Private & Personel Use Only
Www.jainelibrary.org