SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ६-प्र. ॥५७७॥ धनशेखरदशा चेतना ततो बाधते मां बुभुक्षा अभिभवति पिपासा ततोऽहं फलजलार्थी पर्यटितुं प्रवृत्तो यावत्-पुण्योदयस्य नष्टत्वाद्धमताऽत्र मया | वनम् । प्राप्तं पुष्पफलैः शून्यं, मरुभूमेः समप्रभम् ॥ २८९ ॥ तथापि तत्र वने-अद्यापि करणीयं मे, यतोऽस्ति बहुपातकम् । ततः | कृच्छ्रेण संपन्ना, प्राणवृत्तिः कथंचन ॥ २९० ॥ अथ प्रामपुराकीर्ण, वसन्तं देशमागतः । न च शून्याभिमानेन, पितुः पार्श्वमहं गतः ॥ २९१ ॥ किं तु-नष्टपुण्योदयस्ताभ्यां, मित्राभ्यां परिवारितः । भ्रान्तो विविधदेशेषु, भूयो भूयो धनेच्छया ।। २९२ ॥ तत्र चयद्याचरामि वाणिज्य, रूपेणार्घ प्रजायते । करोमि कर्षणं तत्र, वृष्टिदेशेऽपि नश्यति ॥ २९३ ॥ ततः सेवां करोम्युच्चैर्विनयोद्यतमानसः। यावन्मम विना कार्य, स राजा रोषमागतः ।। २९४ ॥ तोषार्थ स्वामिनो भीमे, रणे योद्धमुपागतः । तत्रापि तीक्ष्णशस्त्रौघप्रहारैः पी-12 डितः परम् ॥ २९५ ॥ अथान्यदा बलीवर्दवाहनं विहितं मया । यावत्तिलकरोगेण, मृताः सर्वेऽपि ते वृषाः ।। २९६ ॥ अथ रासभसार्थेन, वाणिज्यं कर्तुमुद्यतः । यावच्चौरैः पतित्वाऽसौ, सर्वः सार्थो विलोडितः ॥ २९७ ॥ ततः कुटुम्बिनो गेहे, जातोऽहं कर्मकारकः । स चोक्तामपि मे वृत्ति, न ददाति प्रकुप्यति ॥ २९८ ॥ ततो भूयः समुद्रेऽहं, वणिजोऽन्यस्य सेवकः । भूत्वा प्रविष्टो बोहित्थं, समारुह्य वरानने! ॥ २९९ ॥ यावन्ममानुभावेन, तदपि प्रलयं गतम् । यानपात्रं समुत्तीर्णः, फलकेन कथंचन ॥ ३०॥ अथ रोधनमासाद्य, द्वीपं संतुष्टमानसः । ततः खनितुमारब्धो, यावद्धलिः परं करे ॥ ३०१॥ अथान्यत्र पुनर्गत्वा, नरेन्द्रं प्राप्य कंचन । धातुवादः समारब्धो, विधातुं धनकाम्यया ॥ ३०२ ॥ पाषाणैर्मूलजालैश्च, मृद्भिः पारदमर्दनः । क्षपितोऽहं तदा भद्रे, जातः क्षारः परं करे 5॥३०३ ।। ततो द्यूतं मया चित्रं, शिक्षितं धनकाम्यया । यावत्तत्रापि जित्वाऽहं, बद्धो द्यूतकरैनरैः ।। ३०४ ।। भ्रष्टः कथंचित्तेभ्योलाऽपि, समासाद्य परं नरम् । गृहीतपुस्तको रात्री, प्रविष्टो रसकूपिकाम् ॥ ३०५ ॥ यावद्भीषणनादेन, लाङ्गलोल्लासकारिणा । त्रासितो ॥५७७॥ Jain Education International For Private & Personel Use Only Thar.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy