SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ६-प्र. ॥५७७॥ धनशेखरदशा चेतना ततो बाधते मां बुभुक्षा अभिभवति पिपासा ततोऽहं फलजलार्थी पर्यटितुं प्रवृत्तो यावत्-पुण्योदयस्य नष्टत्वाद्धमताऽत्र मया | वनम् । प्राप्तं पुष्पफलैः शून्यं, मरुभूमेः समप्रभम् ॥ २८९ ॥ तथापि तत्र वने-अद्यापि करणीयं मे, यतोऽस्ति बहुपातकम् । ततः | कृच्छ्रेण संपन्ना, प्राणवृत्तिः कथंचन ॥ २९० ॥ अथ प्रामपुराकीर्ण, वसन्तं देशमागतः । न च शून्याभिमानेन, पितुः पार्श्वमहं गतः ॥ २९१ ॥ किं तु-नष्टपुण्योदयस्ताभ्यां, मित्राभ्यां परिवारितः । भ्रान्तो विविधदेशेषु, भूयो भूयो धनेच्छया ।। २९२ ॥ तत्र चयद्याचरामि वाणिज्य, रूपेणार्घ प्रजायते । करोमि कर्षणं तत्र, वृष्टिदेशेऽपि नश्यति ॥ २९३ ॥ ततः सेवां करोम्युच्चैर्विनयोद्यतमानसः। यावन्मम विना कार्य, स राजा रोषमागतः ।। २९४ ॥ तोषार्थ स्वामिनो भीमे, रणे योद्धमुपागतः । तत्रापि तीक्ष्णशस्त्रौघप्रहारैः पी-12 डितः परम् ॥ २९५ ॥ अथान्यदा बलीवर्दवाहनं विहितं मया । यावत्तिलकरोगेण, मृताः सर्वेऽपि ते वृषाः ।। २९६ ॥ अथ रासभसार्थेन, वाणिज्यं कर्तुमुद्यतः । यावच्चौरैः पतित्वाऽसौ, सर्वः सार्थो विलोडितः ॥ २९७ ॥ ततः कुटुम्बिनो गेहे, जातोऽहं कर्मकारकः । स चोक्तामपि मे वृत्ति, न ददाति प्रकुप्यति ॥ २९८ ॥ ततो भूयः समुद्रेऽहं, वणिजोऽन्यस्य सेवकः । भूत्वा प्रविष्टो बोहित्थं, समारुह्य वरानने! ॥ २९९ ॥ यावन्ममानुभावेन, तदपि प्रलयं गतम् । यानपात्रं समुत्तीर्णः, फलकेन कथंचन ॥ ३०॥ अथ रोधनमासाद्य, द्वीपं संतुष्टमानसः । ततः खनितुमारब्धो, यावद्धलिः परं करे ॥ ३०१॥ अथान्यत्र पुनर्गत्वा, नरेन्द्रं प्राप्य कंचन । धातुवादः समारब्धो, विधातुं धनकाम्यया ॥ ३०२ ॥ पाषाणैर्मूलजालैश्च, मृद्भिः पारदमर्दनः । क्षपितोऽहं तदा भद्रे, जातः क्षारः परं करे 5॥३०३ ।। ततो द्यूतं मया चित्रं, शिक्षितं धनकाम्यया । यावत्तत्रापि जित्वाऽहं, बद्धो द्यूतकरैनरैः ।। ३०४ ।। भ्रष्टः कथंचित्तेभ्योलाऽपि, समासाद्य परं नरम् । गृहीतपुस्तको रात्री, प्रविष्टो रसकूपिकाम् ॥ ३०५ ॥ यावद्भीषणनादेन, लाङ्गलोल्लासकारिणा । त्रासितो ॥५७७॥ Jain Education International For Private & Personel Use Only Thar.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy