________________
उपमितौ
प. ६-प्र.
।। ५७५ ।।
Jain Education In
द्वितीयमिदमायातं, संपूर्णा मे मनोरथाः || २५७|| विहिता मैथुनेनापि मम बुद्धिर्दुरात्मना । तदेदृशी महापापपूरपूरितचेतसः || २५८ || मयूरमञ्जरी यावन्न भुक्तेयं वरानना । पृथुस्तनी विशालाक्षी, क्षाममध्यातिकोमला ॥ २५९ ॥ बृहन्नितम्बबिम्बेन मन्दसञ्चारमन्थरा । लावण्यामृतपूर्णाङ्गी, सर्वथा भुवनातिगा ॥ २६० ॥ तावत्किं जीवितेनेह, निष्फलेन प्रयोजनम् ? । अतोऽहं मानयाम्येनां, सर्वथा चारुलोचनाम् || २६१ ॥ तदिदं रत्नबोहित्थमेषा च हरिणेक्षणा । न मे संपद्यते तावद्यावन्नो घातितो हरिः ॥ २६२ ॥ ततः पातकपूर्णेन, मित्रद्वयवशात्तदा । हरिं व्यापादयामीति मया चित्तेऽवधारितम् ॥ २६३ ॥ नालोचितं हरेश्चित्तं, निर्व्याजस्नेहनिर्भरम् । न विज्ञातं महापापं न दृष्टं कुलदूषणम् || २६४ || लङ्घिता च परा मैत्री, विस्मृता साधुकारिता । उपचाराः परिभ्रष्टा, निर्नष्टं सत्यपौरुषम् ॥ २६५ ॥ अथ बोहित्यपर्यन्ते, रात्रावुत्थाय संस्थितः । हरिः शरीरचिन्तार्थ, पापेन प्रेरितो मया ॥ २६६ ॥ ततो मां वीक्षमाणोऽसौ किमेत दिति चिन्तया । व्याकुलो विषमस्थत्वाद्राट्कृत्य पतितो जले || २६७ ॥ द्राद्वारादुत्थिता लोकाः, कोलाहलपरायणाः । मयूरमञ्जरी त्रस्ता, स्थितोऽहं शून्यमानसः ॥ २६८ ॥ अथ तत्तादृशं वीक्ष्य, नृशंसं कर्म मामकम् । समुद्राधिपतिर्देवो, गतः कोपं ममोपरि ॥ २६९ ॥ तुष्टो हरिकुमारस्य, कुन्देन्दुविशदैर्गुणैः । स कृत्वा भीषणं रूपमायातो घोरमानसः ॥ २७० ॥ तेन चासौ क्षणादेव, देवेन विहितादरम् । उत्पाट्य जलधेर्नीराद्बोहित्थे स्थापितो हरिः || २७१ ।। इतश्च – योऽभूत्पुण्योदयो नाम, वयस्योऽत्यन्तवत्सलः । अत्रान्तरे स नष्टो मे, रुष्टवद्दुष्टकर्मणा ।। २७२ ।। अथाकाशे लसद्दीप्तिविद्योतितदिगन्तरः । स देवो भीषणं रूपमास्थाय मम सम्मुखम् ॥ २७३ ॥ ततो रे रे महापाप !, दुर्बुद्धे कुलदूषण । निर्लज्ज त्यक्तमर्याद, हीनसत्त्व नराधम ॥ २७४ ॥ विधायापीदृशं कर्म, घोरं रौद्रेण चेतसा । तथापि न त्वमद्यापि शतशर्करतां गतः ॥ २७५ ॥ एवं ब्रुवाणो दष्टौष्ठो, भीमभ्रुकुटिदारुणः । स देवः कम्पमानं मां, गृहीत्वा गगने
For Private & Personal Use Only
देवाविर्भावः
॥ ५७५ ॥
www.jainelibrary.org