________________
उपमिती प. ६-प्र.
॥५७४॥
संदिष्टं च यथा शीघ्रं, कुमार! कुलभूषण । त्वया ममानुरोधेन, देशः संत्यज्यतामयम् ॥ २४९ ।। ततो दमनकाच्छ्रुत्वा, सुबुद्ध्यभ्यर्थना हरिः । समुद्रलङ्घने चित्तमभीतोऽपि चकार सः ॥ २५० ॥ अथैकान्ते ममानेन, वृत्तान्तो निखिलस्तदा । कथितो हरिणा भद्रे!, गाढं विश्रब्धचेतसा ।। २५१ ॥ उक्तं च हरिणा-अकार्यकुपितो राजा, समादिष्टं च मत्रिणा । अतः समुद्रमुल्लंघ्य, गन्तव्यं भारते मया हरिकुमा॥ २५२ ॥ न चाहं क्षणमप्येकं, शक्नोमि रहितस्त्वया । स्थातुं ततः प्रतिष्ठस्व, गच्छामो धनशेखर! ॥ २५३ ॥ मया चिन्तितं- रप्रस्थान रत्नोपार्जनविघ्नो हि, सर्वथाऽयं हरिर्मम । तथापि का गतिनूनं, गन्तव्यममुना सह ॥ २५४ ॥ ततो मयोक्तं-कुमार! यत्ते रोचते | किमत्र वयं ब्रूमः ?, हरिराह-यद्येवं ततो वयस्य ! निरूपय किंचिनिष्ठुरं यानपात्रं, यतोऽस्ति मे भाण्डागारे महत्तमो रत्नराशिस्तंडू गृहीत्वा गच्छाम इति, मयोक्तं यदादिशति कुमारः, ततो निरूपिते द्वे यानपात्रे, भृतमेकं हरिरत्नानामपरमात्मरत्नानामिति, ततः | संजातः प्रदोषसमयः, गतो वञ्चयित्वा निःशेषं परिजनं वसुमतीमयूरमअरीसहितो जलधितीरं हरिकुमारोऽहं च, निरूपिताः सांया-10
| सागरमैत्रिकपुरुषाः अतिलखिता स्तोकवेला समुद्गतः कामिनीगण्डपाण्डुरः शशधरः समागता संक्षोभितजलचरनिनादगर्भा समुद्रवेला समा
थुनकारि| रूढो यानपात्रमात्मीयं सपत्नीको हरिकुमारः, अहं तु स्वकीय यानपात्रमारुरुक्षुरुक्तो हरिणा-यथा धनशेखर ! त्वमप्यत्रैव मदीयपोते
ता द्रोहसमारुह, न शक्नोम्यहं भवन्तं विहाय निमेषमप्यासितुं, ततः समारूढोऽहमपि तत्समीपे, कृतानि मङ्गलानि उपयुक्तः कर्णधारः आपू
| वृत्तिः रिते यानपात्रे प्रवृत्ते पवनवेगेन, तथा वहतां च गतानि कतिचिदिनानि लवितो बंहीयान् समुद्रः, अत्रान्तरे-ममागृहीतसङ्केते !, भद्रे | पापवयस्यको । सागरो मैथुनश्वोच्चैः, प्रेरको समुपस्थितौ ॥ २५५ ॥ ततश्च–सागरेण कृता बुद्धिर्ममैषा पापकर्मणा । यथेदं रत्नसंपूर्ण, बोहित्थं कस्य मुच्यते ? ॥२५६ ॥ ततो मया चिन्तितं, अहो मे भाग्यातिशयः, तथाहि-एकं तावन्ममात्मीयं, बोहित्थं रत्नपूरितम् ।
मन
मानव
REACHER
Jan Education in
For Private
Personel Use Only
R
ujainelibrary.org