________________
उपमितौ प. ६-प्र.
॥५७३॥
वेष्टितो वरकुखरम् । आरूढो मित्रवृन्देन, वृतो लोकविलोकितः ।। २३१ ।। उद्दण्डपुण्डरीकेण, ध्रियमाणेन शक्रवत् । मयूरमजरीयुक्तो, विचचार पुरेऽखिले ॥ २३२ ॥ युग्मम् । ततश्च-जनानुरागमतुलं, हरौ वीक्ष्य दुराशया । संजातं नीलकण्ठस्य, चित्तं कालुष्यदूषितम् ।। २३३ ॥ चिन्तितं च ततस्तेन, वृद्धोऽहं पुत्रवर्जितः । अनुरक्तं हरौ सर्व, मम तवं सबान्धवम् ॥ २३४ ॥ एवं च व्यवस्थिते
-बलादुत्तोल्य मामेष, वर्धमानो महाबलः । हरिहरिष्यते सर्व, मम राज्यं न संशयः ॥ २३५ ॥ तस्मान्नोपेक्षणीयोऽयं, गीतं नीतिविशारदैः । अर्धराज्यहरं भृत्यं, यो न हन्यात्स हन्यते ॥ २३६ ॥ अतः सुबुद्धिना सार्ध, पर्यालोच्य सुमत्रिणा । हरिं निपातयामीति, चित्ते तेनावधारितम् ॥ २३७ ॥ अथाहूय रहस्ये तं, सुबुद्धिं वरमत्रिणम् । स नीलकण्ठराजेन्द्रः, स्वाभिप्रायं न्यवेदयत् ॥ २३८ । स च तादृशवाक्येन, वाहत इवान्तरा । तथापि नीलकण्ठस्य, कृतवाननुवर्तनम् ॥ २३९ ॥ उक्तं च तेन सुबुद्धिमत्रिणा, यदुत-एवं विधीयतां देव!, यत्ते मनसि रोचते । अयुक्ते न प्रवर्तन्ते, बुद्धयो हि महात्मनाम् ॥ २४०॥ ततश्च-स सुबुद्धिर्नरेन्द्रश्च, कर्तव्यं हरिमारणम् । एवं संस्थाप्य सिद्धान्तं, खं खं गेहमुपागतौ ।। २४१ ।। अथावदातसद्बुद्धेः, सुबुद्धेर्मनसीदृशाः। तदा विकल्पाः संजातास्तच्छ्रुत्वा राजजल्पितम्॥२४२॥ धिग् धिग् भोगसुखासङ्ग, धिगज्ञानविजृम्भितम् । धिगहो राज्यलाम्पट्यं, कुविकल्पशतालयम् ॥ २४३ ॥ यदेष पूर्व देवस्य, जीवितादपि वल्लभः । जामाता भागिनेयश्च, हरिः सर्वगुणाकरः ॥ २४४ ।। अधुना वर्तते द्वेष्यो, वध्यः शत्रोः समर्गलः । तत्र भोगतृष्णान्ध्यं, विमुच्यान्यन्न कारणम् ॥ २४५ ॥ तथाहि-कथं विनीतः शुद्धात्मा, निर्लोभः पापभीरुकः । स हरिः स्वप्नकालेऽपि, हरेदेवस्य शासनम् ? ॥ २४६ ॥ तदयं राज्यमोहेन, मूढो राजा न संशयः । तथापि रक्षणीयो|ऽसौ, रत्नभूतो मया हरिः ॥ २४७ ॥ ततो दमनको नाम, स्वचेटस्तेन मन्त्रिणा । प्रच्छन्नं प्रहितस्तूर्ण, हरेर्वृत्तान्तसूचकः ।। २४८॥
5555
सुबुद्धिना
| ज्ञापन
*॥५७३॥
For Private Personal Use Only
Jan Education Interational
www.jainelibrary.org