________________
यौवनमैथुनसङ्गः
उपमितौ प.६-अ. ॥५७१॥
रोदिता । सा कालपरिणत्याख्या, प्रसिद्धा भुवनत्रये ॥ १९५ ॥ तस्या अनुचरौ लोके, ख्यातौ यौवनमैथुनौ । अत्यन्तरसिकौ भद्रे !, कचिदेवं प्रजल्पितौ ॥ १९६ ॥ यौवनेनोक्तं-मित्र! संसारिजीवोऽसौ, संप्राप्तो वशवर्तिताम् । धनशेखररूपेण, वर्तमानो ममाधुना ॥ १९७ ।। अतोऽस्ति तत्समीपे भो, भवतोऽपि न संशयः । प्रस्तावो गन्तुमित्येवं, संस्थिते गम्यतामिति ॥ १९८ ।। मैथुनेनोक्तंयद्येवं दर्शयैनं मे, कुत्रचिद्धनशेखरम् । सम्बन्धं च ममानेन, मित्र! योजय साम्प्रतम् ॥ १९९ ॥ यौवनेनोक्तं गतोऽहं पूर्वमेवास्य, समीपं सेवितो मया । ततो बाढं नयामि त्वां, सम्बन्धं लगयामि च ॥ २०० ॥ एवं तौ कृतसम्भाषावन्तरङ्गवयस्यको । अथ तत्र ममाभ्यर्णे, प्राप्तौ यौवनमैथुनौ ॥ २०१॥ यौवनेनोक्तं-अयं मया समानीतो, वयस्योऽत्यन्तवत्सलः । अतो मामिव सर्वत्र, पश्येमं
धनशेखर! ॥ २०२ ।। अत्यन्तसुखहेतुस्ते, वयस्योऽयं मया युतः । यद्वा नियुक्तवत्सा गौ व श्लाघनमर्हति ॥ २०३ ॥ स चानन्तममहादुःखगर्तसम्पातकारणम् । तथापि च मया भद्रे !, मोहदोषान्न लक्षितः ॥ २०४ ॥ न स्थितः सागरं कृत्वा, वयस्यं मे विधिस्तदा । 2 मैथुनं चाकरोदेष, तदिदं लोकजल्पितम् ॥ २०५ ॥ यथा-महाभारसमाक्रान्तमूर्तेराराटिकारिणः । यत्पृष्ठे माति नोष्ट्रस्य,
गलके तन्निबध्यते ॥ २०६ ॥ ततो यौवनवाक्येन, मोहविह्वलचेतसा । प्रतिपन्नौ मया भद्रे !, तौ हि प्रीतान्तरात्मना ।। २०७॥
इतश्च-ममान्तरङ्गप्रासादो, विद्यते स्वान्तनामकः । अथ तस्य कृतः स्वामी, स तदा मैथुनो मया ॥ २०८ ॥ तथा-तस्यैव प्रतिट्र बद्धोऽस्ति, द्वितीयो गात्रनामकः । प्रासादः स्थापितस्तत्रं, स मया यौवनस्तदा ॥ २०९॥ अथ तौ निजवीर्येण, ततः प्रासादयोस्तयोः ।
ललमानौ मया साध, किं किं कर्तुं समुद्यतौ ? ॥ २१ ॥ यौवनेन कृता भद्रे !, बलान्मेऽतिमनोहराः। लीलाविलासविब्बोकहास्यशौर्यादयो गुणाः ॥ २११ ॥ मैथुनेन पुनर्भद्रे !, कृतोऽहं योषितां शतैः । सुभुक्तैरप्यतृप्तात्मा, दावानल इवेन्धनैः ।। २१२ ॥ प्रधानगणि
॥५७१॥
Jain Education Intel
For Private & Personel Use Only
Sandw.jainelibrary.org