SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ यौवनमैथुनसङ्गः उपमितौ प.६-अ. ॥५७१॥ रोदिता । सा कालपरिणत्याख्या, प्रसिद्धा भुवनत्रये ॥ १९५ ॥ तस्या अनुचरौ लोके, ख्यातौ यौवनमैथुनौ । अत्यन्तरसिकौ भद्रे !, कचिदेवं प्रजल्पितौ ॥ १९६ ॥ यौवनेनोक्तं-मित्र! संसारिजीवोऽसौ, संप्राप्तो वशवर्तिताम् । धनशेखररूपेण, वर्तमानो ममाधुना ॥ १९७ ।। अतोऽस्ति तत्समीपे भो, भवतोऽपि न संशयः । प्रस्तावो गन्तुमित्येवं, संस्थिते गम्यतामिति ॥ १९८ ।। मैथुनेनोक्तंयद्येवं दर्शयैनं मे, कुत्रचिद्धनशेखरम् । सम्बन्धं च ममानेन, मित्र! योजय साम्प्रतम् ॥ १९९ ॥ यौवनेनोक्तं गतोऽहं पूर्वमेवास्य, समीपं सेवितो मया । ततो बाढं नयामि त्वां, सम्बन्धं लगयामि च ॥ २०० ॥ एवं तौ कृतसम्भाषावन्तरङ्गवयस्यको । अथ तत्र ममाभ्यर्णे, प्राप्तौ यौवनमैथुनौ ॥ २०१॥ यौवनेनोक्तं-अयं मया समानीतो, वयस्योऽत्यन्तवत्सलः । अतो मामिव सर्वत्र, पश्येमं धनशेखर! ॥ २०२ ।। अत्यन्तसुखहेतुस्ते, वयस्योऽयं मया युतः । यद्वा नियुक्तवत्सा गौ व श्लाघनमर्हति ॥ २०३ ॥ स चानन्तममहादुःखगर्तसम्पातकारणम् । तथापि च मया भद्रे !, मोहदोषान्न लक्षितः ॥ २०४ ॥ न स्थितः सागरं कृत्वा, वयस्यं मे विधिस्तदा । 2 मैथुनं चाकरोदेष, तदिदं लोकजल्पितम् ॥ २०५ ॥ यथा-महाभारसमाक्रान्तमूर्तेराराटिकारिणः । यत्पृष्ठे माति नोष्ट्रस्य, गलके तन्निबध्यते ॥ २०६ ॥ ततो यौवनवाक्येन, मोहविह्वलचेतसा । प्रतिपन्नौ मया भद्रे !, तौ हि प्रीतान्तरात्मना ।। २०७॥ इतश्च-ममान्तरङ्गप्रासादो, विद्यते स्वान्तनामकः । अथ तस्य कृतः स्वामी, स तदा मैथुनो मया ॥ २०८ ॥ तथा-तस्यैव प्रतिट्र बद्धोऽस्ति, द्वितीयो गात्रनामकः । प्रासादः स्थापितस्तत्रं, स मया यौवनस्तदा ॥ २०९॥ अथ तौ निजवीर्येण, ततः प्रासादयोस्तयोः । ललमानौ मया साध, किं किं कर्तुं समुद्यतौ ? ॥ २१ ॥ यौवनेन कृता भद्रे !, बलान्मेऽतिमनोहराः। लीलाविलासविब्बोकहास्यशौर्यादयो गुणाः ॥ २११ ॥ मैथुनेन पुनर्भद्रे !, कृतोऽहं योषितां शतैः । सुभुक्तैरप्यतृप्तात्मा, दावानल इवेन्धनैः ।। २१२ ॥ प्रधानगणि ॥५७१॥ Jain Education Intel For Private & Personel Use Only Sandw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy