________________
उपमितौ प. ६-प्र.
॥५६९॥
तद्यथा-इयमिह निजकहृदयवल्लभतरदृष्टवियुक्तहंसिका । तदनुस्मरणखेदविधुरा बत शुष्यति राजहंसिका ॥ १७३ ॥ रचितमनन्तम-12 परभवकोटिषु दुःसहतरफलं यया । पापमसौ नितान्तमसुखानुगता भवतीदृशी जन! ॥ १७४ ॥ ततः स्थितं हरिकुमारस्य हृदये यथा-अहो राजदुहितुः कौशलं अहो रसिकत्वं अहो सारग्राहिता अहो सद्भावार्पणं अहो मयि दृढानुरागः, तथाहि विद्याधरमिथुनानुलेखनेन दर्शितोऽनया स्वाभिलाषातिरेकः राजहंसिकाविन्यासेन प्रकटितमभिलषितवस्त्वप्राप्तिकृतमात्मनि दैन्यं तावदनेनैव परिस्फुट द्विपदीखण्डद्वयेन पुनर्नितरां परिस्फुटीकृतोऽयमेव भावार्थः, ततो दर्शितो मन्मथादीनां चित्रपटः, तैरभिहितं-कुमार! गत्वा संधार्यतामियं वराकी राजहंसिका अलं म्रियमाणयोपेक्षितया, कुमारेणोक्तं—एवं भवतु, ततो गताः सर्वेऽपि राजसदने, दत्ता सबहुमानं नी- वीवाहा लकण्ठराजेन हरिकुमाराय मयूरमजरी । ततः शुभदिने प्रवृत्तो विवाहमहोत्सवः, स च कीदृशः-मधुमत्तविघूर्णितभूरिजनो, बहुलोकयथेप्सितदत्तधनः । द्युसदामपि विस्मयतोषकरो, जननर्तनखादनपानपरः ॥ १७५॥ ततः पूजिता देवगुरवः सन्मानिताः सामन्ताः पूरितः प्रणयिवर्गः संवर्गितो राजलोकः तोषिताः प्रकृतयः कृतमुचितकरणीयं वृत्तो विवाहानन्द इति । अथ तां नीलकण्ठस्य, जीवितादपि वल्लभाम् । मयूरमजरी प्राप्य, भार्या सर्वाङ्गसुन्दराम् ॥ १७६ ॥ स हरिर्मित्रवृन्देन, परिवारितविग्रहः । ललमानः परां ख्याति, रत्नद्वीपे तदा गतः ॥ १७७ ॥ असूनोनीलकण्ठस्य, परिवारः सबान्धवः । तत्रानुरक्तः संपन्नो, हरौ भूरिगुणोत्करे ॥ १७८ ॥ अन्तःपुरं पुरं लोकाः, सदेशं राजमण्डलम् । नाम्ना हरिकुमारस्य, जायते तोषनिर्भरम् ।। १७९ ॥ इतश्चममागृहीतसङ्केते!, स हरिः स्नेहनिर्भरः । वियोगं क्षणमप्येकं, नेच्छत्येव तदात्मना ॥ १८० ॥ मम पुण्योदयेनासौ, जनितस्तेन मीलंकः । सद्भावस्नेहसारेण, वयस्येन ॥५६९॥ महात्मना ।। १८१ ॥ तथाहि तेन सह तिष्ठतो मे निरुपमं विषयसुखं देवदुर्लभा विलासा विशिष्टजनस्पृहणीया गोष्टी वर्धते प्रज्ञा
Jain Education Intard
For Private Personel Use Only
Raw.jainelibrary.org