SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. ॥५६८॥ हृदयवल्लभ इति, मयूरमश्वरी प्राह आः मातः किमित्येवमालजालेन मां विप्रतारयसि ?, ततो नास्याः संप्रत्यय इति किं कालक्षेपेणेति विद्याधरकथितो महाराजाय शिखरिण्या समस्तोऽपि व्यतिकरः, ततोऽभिरुचितो नीलकण्ठाय मयूरमजर्या वरो हरिकुमारः, ततस्तदानयनार्थ- & मिथुनरामहमेव प्रहिता ताभ्यामिति, तदेष भद्र! चित्रपट्टिकावृत्तान्तः । एषा सा कन्यका, एतदर्थ चाहमुञ्चलिताऽस्मि ॥ मयोक्तं-भगवति ! किं जहंसिकापुनरिदं करे तव दृश्यते ?, बन्धुलयोक्तं-भद्र ! मयूरमजरीस्वहस्तलिखितं चित्रमिदं, मयोक्तं-किमर्थमिदं गृहीतं भगवत्या ?, बन्धु- चित्रे लयोक्तं-मा भूत्कुमारस्य मदीयवचनादसंप्रत्ययः, अतस्तस्याः स्वभावसूचकमेतत् , मयोक्तं-चारु विहितं भगवत्या, दत्ता कुमारस्य प्राणाः, ततो मया सहिता गता सा हरिकुमारसमीपं निवेदितं राजशासनं बन्धुलया कथितो मयापि तन्निवेदितः समस्तोऽपि वृत्तान्तः न च श्रद्धत्ते हरिकुमारः ततः समर्पितो बन्धुलयाऽसौ द्विपुटसंवर्तितश्चित्रपटः प्रविघाट्य निरूपितो हरिकुमारेण यावदृष्टमालिखितमेक पुटे सुविभक्तोत्रलेन वर्णक्रमेण अलक्ष्यमाणैस्तूलिकापदकरैनुरूपया सूक्ष्मरेखया प्रकटदर्शनेन निम्नोन्नतविभागेन समुचितेन भूषणकलालापेन सुविभक्तयाऽवयवरचनयाऽतिविलक्षणया बिन्दुवर्तिन्या अभिनवस्नेहरसोत्सुकतया परस्परं हर्षोत्फुल्लबद्धदृष्टिकं समारूढप्रेमातिब न्धुरैकतयाऽलजितचित्तनिवेशं विद्याधरमिथुनकमिति, दृष्टं च तस्याधस्ताल्लिखितमिदं द्विपदीखण्ड, तद्यथा-प्रियतमरतिविनोदसंभाष-2 रणरभसविलासलालिताः । सततमहो भवन्ति ननु धन्यतमा जगतीह योषितः ॥ १७१ ॥ अभिमतवदनकमलरसपायनलालितलोललो-14 चनाः । सुचरितफलमनर्घ्यमनुभवति शमियमम्बरचरी यथा ॥ १७२ ॥ ततो निरीक्षितं राजतनयेन द्वितीयं चित्रपटपुटं यावत्तत्र दृष्टा पदवप्लोषितेव वनलतिका हिमहतेव नलिनिका दिनकरकरनिकरमुषितप्रभेव चन्द्रलेखिका उत्खोटितम्लानेव चूतमञ्जरिका विनष्टसर्वस्वेव P ॥५६८॥ पणिका सर्वथा गतच्छाया शोकातिरेकपरिदुर्बलाङ्गी कण्ठगतप्राणा लिखिता राजहंसिका, दृष्टं चाधस्ताल्लिखितमिदं तस्या द्विपदीखण्डं, 15515ॐॐ Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy