SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. ॥५६८॥ हृदयवल्लभ इति, मयूरमश्वरी प्राह आः मातः किमित्येवमालजालेन मां विप्रतारयसि ?, ततो नास्याः संप्रत्यय इति किं कालक्षेपेणेति विद्याधरकथितो महाराजाय शिखरिण्या समस्तोऽपि व्यतिकरः, ततोऽभिरुचितो नीलकण्ठाय मयूरमजर्या वरो हरिकुमारः, ततस्तदानयनार्थ- & मिथुनरामहमेव प्रहिता ताभ्यामिति, तदेष भद्र! चित्रपट्टिकावृत्तान्तः । एषा सा कन्यका, एतदर्थ चाहमुञ्चलिताऽस्मि ॥ मयोक्तं-भगवति ! किं जहंसिकापुनरिदं करे तव दृश्यते ?, बन्धुलयोक्तं-भद्र ! मयूरमजरीस्वहस्तलिखितं चित्रमिदं, मयोक्तं-किमर्थमिदं गृहीतं भगवत्या ?, बन्धु- चित्रे लयोक्तं-मा भूत्कुमारस्य मदीयवचनादसंप्रत्ययः, अतस्तस्याः स्वभावसूचकमेतत् , मयोक्तं-चारु विहितं भगवत्या, दत्ता कुमारस्य प्राणाः, ततो मया सहिता गता सा हरिकुमारसमीपं निवेदितं राजशासनं बन्धुलया कथितो मयापि तन्निवेदितः समस्तोऽपि वृत्तान्तः न च श्रद्धत्ते हरिकुमारः ततः समर्पितो बन्धुलयाऽसौ द्विपुटसंवर्तितश्चित्रपटः प्रविघाट्य निरूपितो हरिकुमारेण यावदृष्टमालिखितमेक पुटे सुविभक्तोत्रलेन वर्णक्रमेण अलक्ष्यमाणैस्तूलिकापदकरैनुरूपया सूक्ष्मरेखया प्रकटदर्शनेन निम्नोन्नतविभागेन समुचितेन भूषणकलालापेन सुविभक्तयाऽवयवरचनयाऽतिविलक्षणया बिन्दुवर्तिन्या अभिनवस्नेहरसोत्सुकतया परस्परं हर्षोत्फुल्लबद्धदृष्टिकं समारूढप्रेमातिब न्धुरैकतयाऽलजितचित्तनिवेशं विद्याधरमिथुनकमिति, दृष्टं च तस्याधस्ताल्लिखितमिदं द्विपदीखण्ड, तद्यथा-प्रियतमरतिविनोदसंभाष-2 रणरभसविलासलालिताः । सततमहो भवन्ति ननु धन्यतमा जगतीह योषितः ॥ १७१ ॥ अभिमतवदनकमलरसपायनलालितलोललो-14 चनाः । सुचरितफलमनर्घ्यमनुभवति शमियमम्बरचरी यथा ॥ १७२ ॥ ततो निरीक्षितं राजतनयेन द्वितीयं चित्रपटपुटं यावत्तत्र दृष्टा पदवप्लोषितेव वनलतिका हिमहतेव नलिनिका दिनकरकरनिकरमुषितप्रभेव चन्द्रलेखिका उत्खोटितम्लानेव चूतमञ्जरिका विनष्टसर्वस्वेव P ॥५६८॥ पणिका सर्वथा गतच्छाया शोकातिरेकपरिदुर्बलाङ्गी कण्ठगतप्राणा लिखिता राजहंसिका, दृष्टं चाधस्ताल्लिखितमिदं तस्या द्विपदीखण्डं, 15515ॐॐ Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy