________________
उपमितौ
| ध्वजाद्यायविचारः
ष. ६-प्र. ॥५६७॥
CROSAGACAN
॥ १६७ ॥ तत्र-शुनि ध्वजे वृषे चैव, जीवचिन्ता प्रकीर्तिता । सिंहवायसयोर्मूलं, धातुं धूमभरासभे ॥ १६८ ॥ अतो ध्वजस्य प्रथमं पातादियं मयूरमजरी वत्सा जीवं चिन्तयति-कालवेलादिभिश्च लक्षयामि तमपि जीवं पुरुषं तमपि राजपुत्रं तमपि हरिनामकमेषा चिन्तयति, तस्य चावश्यं भावी लाभो, यतो धूमस्योपरि निपतितोऽत्र रासभः, तत्र चैवं पठ्यते-स्थानं लाभं च कुरुते, रासभो ध्वजधूमयोः । सिंहस्योपरि नाशं भोः, शेषेषु तु स मध्यमः ।। १६९ ॥ तस्य तु कालतोऽद्यैव लाभो भविष्यति, यतोऽत्र तृतीयो निपतितो ध्वांक्षः, तत्र चेदमुक्तं-ध्वजकुञ्जरयोर्वर्ष, मासो वृषभसिंहयोः । पक्षः श्वखरयो यो, धूमवायसयोर्दिनम् ॥ १७० ॥ ततः संजातप्रत्यया चिन्तानिष्टनेन हृष्टा प्रत्यासन्नेष्टजामालाभेन निपतिता मञ्चरणयोः शिखरिणी, प्राह च-भगवति ! महाप्रसादः सत्यमिदं यदादिष्टं भगवत्या, कथितं हि मे वत्साया मयूरमचर्याः प्रियसख्या लीलावत्या यथा दृष्टोऽनया सूर्योदयसमये मित्रवृन्दपरिकरितो लीलासुन्दरमुद्यानं प्रति प्रवृत्तो हरिकुमारः, चिरं च विलोकितो लोललोचनया वत्सया न च कथंचिदृष्टिगोचरमागता तस्य वत्सा मयूरमखरी, ततस्तदभिलाषेण दुर्भगताशङ्कया चात्मनस्तत एव क्षणादारभ्येयमीदृशीमवस्था प्राप्तेति, तदिदं ज्ञानालोकेन यथाऽवलोकितं भगवत्या तथा भगवत्येव करोतु तेन सह वत्सायाः समागममिति, मयोक्तं यद्येवं ततो निरूपयामि तस्य कुमारस्य कीदृशोऽभिप्राय इति, महादेवी प्राह-यत्त्वं जानीषे किमत्र वयं ब्रूम इति, ततो निर्वर्ण्य लिखिता मया तथा चित्रपट्टिकायां मयूरमजरी गता लीलासुन्दरोद्याने दृष्टो हरिकुमारः समर्पिता चित्रपट्टिका निरूपितोऽस्य भावः लक्षितोऽयं साभिलाषः ततः सिद्धं नः समीहितं पृच्छामि यदतः परं कर्तव्यं महादेवीमिति चिन्तयन्ती शीघ्रं ततोऽपक्रान्ताऽहं निवेदितं महादेव्यै यथा मुष्टिमध्ये मम वर्तते हरिकुमारः तत्कथय किमधुना क्रियतामिति ?, तदाकर्ण्य हृष्टा शिखरिणी दुहितरं प्रत्याह-वत्से ! मयूरमजरि ! समाकर्णितं त्वयेदं भगवतीवचनं यल्लब्धस्ते
CE
॥५६७॥
Jain Educaton inte
For Private & Personel Use Only
www.jainelibrary.org