SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. अन्तस्तापाद्धास्यं कपोलः प्राह-ननु प्रतीता एव कुमारस्य सम्बन्धिनो मे प्रकृत्यादयः, संचयादयोऽपि दोषाणां ज्ञायन्त एव, तथाहि-प्रीष्माहोरात्रवयसामन्तेऽजीर्णस्य चानिलः । कफस्तदादौ तन्मध्ये,पित्तं कुप्येच्छरद्यपि ॥ १५८ ॥ प्रीष्मायेषु समीरस्य, पित्तस्य प्रावृडादिषु । चयप्रकोपप्रशमाः, कफस्य शिशिरादिषु ।। १५९ ॥ हेमन्तशिशिरौ तुल्यौ, शिशिरेऽल्पं विशोषणम् । रूक्षमादानजं शीतं, मेघमारुतवर्षजम् ॥ १६० ॥ अथवा परिस्फुरति मम हृदये सर्वमिदं, किमत्र बहुनाऽऽलोचितेन ?, अजीर्णविकार एवायं कुमारस्य, ततोऽहो विमूढताऽस्य कपोलस्येति चिन्तयता हसितं हरिकुमारण, वयस्यैरुक्तं-कुमार! किमेतत् , कुमारेणोक्तं भो भावितोऽहमस्य कपोलस्य मूर्खतया, ततः समुद्भूतं मे धारयतोऽपि हसनं, पद्मकेसरेणोक्तं—कुमार! महाप्रसादः सिद्धं नः समीहितं, तथाहि—कुमारस्य विनोदार्थ, मनस्तापनिवृत्तये । इदमस्माभिरारब्धमालजालप्रभाषणम् ॥ १६१ ॥ यतः-चित्तोद्वेगनिरासार्थ, सुहृदां तोषवृद्धये । तज्ज्ञाः प्रहसनं दिव्यं, कुर्वन्त्येव विचक्षणाः ॥ १६२ ॥ भैषजं पुनरस्य निर्मुलोच्छेदकं भवतो विकारस्य यदि परं सैव परिव्राजिका विज्ञास्यति संपादयिष्यति वा नापरः, तद्विधीयतां कुमार! तस्याः पर्येषणमलं कालविलम्बेन, कुमारेणोक्तं-पद्मकेसर! यत्त्वं जानासि तदेव क्रि. यता, पद्मकेसरः प्राह-यद्येवं तर्हि कस्तदन्वेषणार्थ प्रहीयतामिति ?, ततः शेषमित्रेष्वविश्वासात्कुमारेणोक्तं-धनशेखरः प्रस्थाप्यतामिति, मयोक्तं-महाप्रसादः, ततो निर्गतोऽहं गन्तुं प्रवृत्तो नगराभिमुखं दृष्टाऽन्तराले सा परित्राजिका विहितः प्रणामः, पृष्टा चभगवति! कोऽयं चित्रपट्टिकावृत्तान्तः का सा कन्यका किमर्थं चोच्चलिताऽसि ?, तयोक्तं-आकर्णय, अस्ति तावत्प्रत्यूषस्येव प्रविष्टाऽई कणभिक्षार्थ, इतश्चास्यैव नीलकण्ठनरपतेरस्ति शिखरिणी नाम महादेवी, प्राप्ताऽहं तस्या भवने यावदृष्टा मया सचिन्ता महादेवी ला समुद्विग्नः परिकरो विषण्णः कन्यकाजनः पर्याकुलाः कञ्चुकिनः आशीर्वादमुखरः स्थविरिकालोक इति, ततो मया चिन्तितं-हा किम हरिमयूरमञ्जर्योः परिणयनं ॐॐॐ ॥५६५॥ ह.भ. ४८ Jain Education Inter For Private & Personel Use Only Laww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy