________________
उपमितौ
प. ६-प्र.
॥ ५६४ ॥
Jain Education In
धैर्यस्मृतिसमाधिभिः ॥ १४५ ॥ अन्यच्च - रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः । विपरीत गुणैर्द्रव्यैर्मारुतः संप्रशाम्यति ॥ १४६ ॥ सस्नेहमुष्णं तीक्ष्णं च द्रवमस्रं रसं पटुः । विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति ॥ १४७ ॥ गुरुशीतमृदुस्निग्धमधुरक्ष्णपिच्छलाः । श्लेष्मणः प्रकृतिं यान्ति, विपरीतगुणैर्गुणाः ॥ १४८ ॥ स्वादुरम्लोऽथ लवणः कटुकस्तिक्त एव च । कषाय इति षट्रोऽयं, रसानां सङ्ग्रहो मतः ॥ १४९ ॥ तत्र - कफं स्वाद्वम्ललवणाः कषायकटुतिक्तकाः । जनयन्त्यनिलं पित्तं, कटुम्ललवणा रसाः ॥ १५० ॥ खाद्वम्ललवणा वायुं, कषायस्वादुतिक्तकाः । जयन्ति पित्तं श्लेष्माणं, कषायकटुतिक्तकाः ॥ १५१ ॥ आमे सदृशगन्धः स्याद्विदुग्धे धूमगन्धिता । विष्टब्धे गात्रभङ्गश्च रसशेषेऽन्नद्वेषिता ॥ १५२ ॥ आमेषु वमनं कुर्याद्विदग्धे चामलकं पिबेत् । विष्टब्धे स्वेदनं कुर्याद्रसशेषे तथा स्वपेत् ॥ १५३ ॥ अन्यच्च - अजीर्णप्रभवा रोगास्तचाजीर्ण चतुर्विधम् । आमं विदग्धं विष्टब्धं, रसशेषं तथा परम् ।। १५४ ।। एवं च स्थिते यथाऽयं कुमारस्यान्तस्तापस्तथाऽजीर्णविकारो लक्ष्यते, विदग्धावस्थां गतेन हि तेन क्षोभितमस्य वायुना सहितं पित्तं, ततो जनितोऽयमन्तस्तापः, विहितं शूलं यत एवं पठ्यते—भुक्ते जीर्यति जीर्णेऽन्ने, जीर्णे भुक्ते च जीर्यति । जीर्णे जीयति भुक्तेऽन्ने, दोषैर्नानाभिभूयते ॥ १५५ ॥ विभ्रमेणोक्तं - सखे कपोल ! न सम्यग् लक्षितं भवता, वैद्येन ह्यातुरं निरूपयता रोगनिदानमेवमुपलब्धव्यं - आदित एवातुरस्य समुपलक्षणीया प्रकृतिः पर्यालोच्यं शरीरसारं विचार्य संहननं विज्ञातव्यं प्रमाणं लक्षयितव्यं सात्म्यं वेदितव्यं सत्त्वं मन्तव्याऽऽहारशक्तिः बोद्धव्यं व्यायामसौष्ठवं परिकलनीयं वयः प्रमाणमिति, अन्यच्च — संचयं च प्रकोपं च, प्रसरं स्थानसंश्रयम् । व्यक्तिभेदांश्च यो वेत्ति, दोषाणां स भिषग्वरः || १५६ || संचयेऽपहृता दोषा, लभन्ते नोत्तरां गतिम् । ते तूत्तरासु गतिषु भवन्ति वलवत्तराः ॥ १५७ ॥ त्वया पुनरत्र किंचिन्नालोचितं, केवलमुद्घाटमुखतया विहितः कुमारशरीरविकारनिर्देशः,
For Private & Personal Use Only
***
अन्तस्तापाद्धास्यं
॥ ५६४ ॥
ww.jainelibrary.org