SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६- प्र. ५६३ ॥ Jain Education Inte : च्छन्तु मन्मथादयोऽत्रैव वा यथेष्टं विहरन्तु त्वमेकोऽत्र मे पार्श्ववर्ती भव येनात्र प्रविश्य चन्दनलतागृहके तावन्निद्रामासादयामि, म योक्तं यदादिशति कुमारः, ततो गता मन्मथादयः स्थितोऽहं प्रविष्टो लताभवने कुमारः विरचितं मया शिशिरपल्लवशयनीयं समारूढो ऽसौ तत्र च मत्स्यक इव तप्तसैकते दन्दह्यमानो न लभते रतिं ततो विहितं मया कोमलमासनं— उपविष्टो हरिकुमारः, तत्रापि | शूलिकाशिरः प्रोततस्कर इव न प्राप्नोति सुखासिकां ततो मदीयस्कन्धावलग्नः करोतीतश्चेतश्च चङ्क्रमणं यावता तथापि न मुच्यतेऽन्तस्तापेन सर्वथा, न सुप्तो नोपविष्टोऽसौ नोर्ध्वो न भ्रमणोद्यतः । सुखमाप्नोति दुःखार्त्तो, नरकेष्विव नारकः ॥ १३५ ॥ एवं दन्दामानस्य हरेर्मदनवह्निना । लङ्घिता महती बेला, शीतलेऽपि लतागृहे ॥ १३६ ॥ कुतूहलवशात्तच्च प्रच्छन्नैर्मन्मथादिभिः । स्थितैर्निरी| क्षितं सर्व, कुमारस्य विचेष्टितम् ॥ १३७ ॥ अत्रान्तरे — पूत्कुर्वन्निव नामेदं, कामस्तापाय देहिनाम् । मध्याह्नसमये दीर्घः, शङ्खनादः समुत्थितः ॥ १३८ ॥ ततः सर्वेऽपि संभूय, वयस्या मन्मथादयः । निनीषवो हरिं गेहे, लतागृहमुपागताः ।। १३९ ॥ ततस्तैः समस्तैरभिहितं गम्यतां भवने देव !, मध्याह्नो वर्ततेऽधुना । क्रियतां देवपूजादि, कर्तव्यं दिवसोचितम् ॥ १४० ॥ हरिकुमारेणोक्तंयात यात गृहे यूयं विमुच्य धनशेखरम् । अहमप्यागमिष्यामि, यावच्छाम्यति वेदना ॥ १४१ ॥ गाढं मे शिरसः शूलमन्तस्तापोऽभिवर्धते । अतोऽहं स्थातुमिच्छामि, शीतलेऽत्र लतागृहे ॥ १४२ ॥ तच्च प्रतीतं सर्वेषां तस्यान्तस्तापकारणं । तथापि कैतवान्मित्रैरित्थं जल्पः प्रवर्तितः ॥ १४३ ॥ भो भोः कपोल ! निपुणोऽसि त्वमायुर्वेदे तन्निरूपय किंनिमित्तकः खल्वयमीदृशः कुमारस्य शरीरविकारः ? को वाऽस्य प्रशमनोपायो भविष्यति ?, कपोलेनोक्तं — एवं भो तावद् वैद्यकशास्त्रे पठ्यते, यदुत - "वायुः पित्तं कफश्चोक्तः, शारीरो दोषसङ्ग्रहः । मानसः पुनरुद्दिष्टो, रजश्च तम एव च ॥ १४४ ॥ ततः प्रशाम्यत्यौषधैः पूर्वो, दैवयुक्तिव्यपाश्रयैः । मानसो ज्ञानविज्ञान For Private & Personal Use Only ***** लताभवने गमनं अन्तस्ता पाद्धास्यं ॥ ५६३ ॥ www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy