________________
उपमितौ ष. ६-प्र.
राणि
॥५६२॥
कारणेन तव हस्ताद्भिक्षा न गृहामि, शेषं स्फुटमेव, द्वितीयस्य पुनरेष भङ्गः-करो-हस्तोऽतिकठिनो-गाढनिष्ठुरस्तव हे राजन् अरी-6 प्रश्नोत्तभकटघट्टनं-शत्रुकरिकुम्भास्फालनं विधत्ते-कुरुते, तथा करवालस्ते निर्मूला शत्रुसंहति विधत्त इति सम्बन्धः, मन्मथेनोक्तं—अहो | कुमारस्य प्रज्ञातिशयः, इतश्च तस्मिन्नेव क्षणे मयापि चिन्तितं गूढचतुर्थकमेकं, निवेदितं हरिकुमाराय , ततस्तदुक्तेन पठितं मया, यदुत -'विभूतिः सर्वसामान्या, परं शौर्य त्रपा मदे । भूत्यै यस्य स्वतः प्रज्ञा।' विचिन्त्य हरिकुमारेण लब्धं हृदये, तुष्टश्चेतसा अभिहितमनेन -साधु सखे ! धनशेखर साधु चारु विरचितं गूढचतुर्थं भवता, ततः समस्तैरभ्यधायि-कुमार! कीदृशोऽस्य तुरीयः पादः?, कुमारेणोक्तं -"पात्रभूतः स भूपतिः” ॥ १३० ।। इति । एतदाकर्ण्य विस्मिता वयस्याः, कपोलः प्राह-मदीयमपि गूढचतुर्थमाकर्णयतु कुमारः, वद वदेत्युक्ते हरिणा पठितं कपोलेन-'न भाषणः परावर्णे, यः समो रोषवर्जितः । भूतानां गोपकोऽत्रस्तः' तदनन्तरमेवोक्तं हरिकुमारेण-"स नरो गोत्रभूषणः" । १३१ ।। कपोलः प्राह-मादृशामिदं कुर्वतां केवलं कालविलम्बोऽभून्न पुनः कुमारस्य, अहो सर्वत्राप्रतिहतशक्तिः कुमारस्य बुद्धिप्रकर्षः, शेषैरभिहितं-एवमिदं नात्र सन्देहः-एवं दत्तावधानस्य, हरेः प्रश्नोत्तरादिपु । सा चित्रकन्यका भद्रे!, विस्मृताऽऽसीत्तदा क्षणम् ।। १३२ ॥ अथ पारापतं दृष्ट्वा, गृहिण्याश्चाटुकारिणम् । सा कन्यका पुनश्चित्ते, तस्य शीघ्र समागता ॥ १३३ ॥ ततः प्रदीप इव खरतरपवनोत्कलिकया इद इव पतन्या महाशिलया दरिद्र इव निजकुटुम्बभरणचिन्तया मानधन इव परपरिभूत्या अविरतसम्यग्दृष्टिरिव संसारभीरुतया क्षणादेव चेतसि विवर्तमानया तया गाढमाघूर्णितोऽसौ हरिकुमारः, ततश्च
-बहिाक्षेपनिर्मुक्तः, सोऽस्माभिस्तत्परायणः । योगीव ध्यानमारूढः, क्षणादेव निरीक्षितः ॥ १३४ ॥ ततो मयोक्तं कुमार ! कि- IG ॥५६२॥ समेतत् ?, कुमारः प्राह-सखे! धनशेखर नागताऽऽसीन्मे शिरोवेदनया रात्रौ निद्रा तथाऽद्यापि च मे मनाकणकणायते मस्तकं तदेते ग-1
Jain Education Inter
For Private Personel Use Only
M
ainelibrary.org