SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥५६ ॥ ॥ १२३ ॥ तदनेन केनचिच्चित्रकरणाऽऽलिखताऽमूं कन्यकां जनितो मे चेतश्चमत्कारः स्थितमिदं मनसि मे यथा नास्तीदृशमन्यस्य जगति कौशलमिति, मन्मथः प्राह-पद्मकेसर ! किं सत्यमिदं ?, पद्मकेसरेणोक्तं-सखे ! सत्यं, केवलं विचित्ररूपाः प्राणिनां चित्तवृत्तयः, ततो मे चित्रकरादपि चित्ते कुशलतरेयमेव कन्यका प्रतिभासते, ललितेनोक्तं-सखे! किमनया विहितं ?, क्वचिच्चित्रमवलोकितं भवता?, पद्मकेसरः प्राह-बाढमवलोकितं, विलासेनोक्तं-सखे! वर्णय तत्कीदृशं?, पद्मकेसरः प्राह-यदुनया कन्यकया दुर्गममन्यनारीणां दुर्लक्ष्यमम्बरचरीणामहार्य किन्नरीणां असाध्यमगरसुन्दरीणां अविषयो गन्धर्वादिपुरन्ध्रीणां मदनातुराणामपि सत्त्वैकसारमपहस्तितरजस्तमोविकारं कुमारमानसं चित्रविन्यस्तरूपयाऽपि दृढमवगाहितं, इदमनया कन्यकया चित्रं विहितं, तच्च मयैव न केवलमवलोकितं किं तर्हि स्फुटतरं भवद्भिरपि, विभ्रमः प्राह-नन्वाश्चर्यमिदं कथं चित्रं?, पद्मकेसरेणोक्तं-ननु मूर्खचूडामणे! आश्चयमेव चित्रशब्देनोच्यते, कपोलः प्राह-कथमिदमवगतं भवता यथा कुमारमानसमनयाऽवगाहितमिति?, पद्मकेसरेणोक्तं-ननु बठरशेखर! किमिदमेतावन्मात्रमपि न लक्ष्यसि ?, तथाहि नो हुकारादयस्तावद्भवन्त्येवं परिस्फुटाः । न च कल्लोलका यावन्न क्षुब्धं मानसं सरः ।। १२४ ॥ यदि च मद्वचने न प्रत्ययो भवतस्ततः कुमारमेव पृच्छ येन परिस्फुटीभवत्येषोऽर्थः, हरिकुमारेणोक्त-सखे! पद्मके| सर अलमनेनासंबद्धप्रलापेन, पठ तावत्किंचिच्चारुप्रश्नोत्तरं, ततः सहासमभिहितमनेन यदाज्ञापयति कुमारः, पठितं च-पश्यन् विस्फारिताक्षोऽपि, वाचमाकर्णयन्नपि । कस्य को याति नो तृप्ति, किं च संसारकारणम् ? ॥ १२५ ॥ हरिकुमारेण तु तया चित्रोपलब्धकन्यकयाऽपहतचित्तेन दत्तः शून्यो हुङ्कारः, पद्मकेसरेण चिन्तितं-नेदं प्रायः सम्यगवधारितं कुमारेण, ततः पुनः स्फुटतरं पठामि, पठितमनेन, पुनर्दत्तो हरिकुमारेण शून्य एव हुङ्कारः, ततो लक्षितं पद्मकेसरेण यथा शून्यीकृतहृदयोऽयमनया चित्रकन्यकया, ततो प्रश्नोत्तराणि ॥५६॥ Jain Education in de For Private & Personel Use Only Anaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy