________________
उपमितौ
॥५६
॥
॥ १२३ ॥ तदनेन केनचिच्चित्रकरणाऽऽलिखताऽमूं कन्यकां जनितो मे चेतश्चमत्कारः स्थितमिदं मनसि मे यथा नास्तीदृशमन्यस्य जगति कौशलमिति, मन्मथः प्राह-पद्मकेसर ! किं सत्यमिदं ?, पद्मकेसरेणोक्तं-सखे ! सत्यं, केवलं विचित्ररूपाः प्राणिनां चित्तवृत्तयः, ततो मे चित्रकरादपि चित्ते कुशलतरेयमेव कन्यका प्रतिभासते, ललितेनोक्तं-सखे! किमनया विहितं ?, क्वचिच्चित्रमवलोकितं भवता?, पद्मकेसरः प्राह-बाढमवलोकितं, विलासेनोक्तं-सखे! वर्णय तत्कीदृशं?, पद्मकेसरः प्राह-यदुनया कन्यकया दुर्गममन्यनारीणां दुर्लक्ष्यमम्बरचरीणामहार्य किन्नरीणां असाध्यमगरसुन्दरीणां अविषयो गन्धर्वादिपुरन्ध्रीणां मदनातुराणामपि सत्त्वैकसारमपहस्तितरजस्तमोविकारं कुमारमानसं चित्रविन्यस्तरूपयाऽपि दृढमवगाहितं, इदमनया कन्यकया चित्रं विहितं, तच्च मयैव न केवलमवलोकितं किं तर्हि स्फुटतरं भवद्भिरपि, विभ्रमः प्राह-नन्वाश्चर्यमिदं कथं चित्रं?, पद्मकेसरेणोक्तं-ननु मूर्खचूडामणे! आश्चयमेव चित्रशब्देनोच्यते, कपोलः प्राह-कथमिदमवगतं भवता यथा कुमारमानसमनयाऽवगाहितमिति?, पद्मकेसरेणोक्तं-ननु बठरशेखर! किमिदमेतावन्मात्रमपि न लक्ष्यसि ?, तथाहि नो हुकारादयस्तावद्भवन्त्येवं परिस्फुटाः । न च कल्लोलका यावन्न क्षुब्धं मानसं सरः ।। १२४ ॥ यदि च मद्वचने न प्रत्ययो भवतस्ततः कुमारमेव पृच्छ येन परिस्फुटीभवत्येषोऽर्थः, हरिकुमारेणोक्त-सखे! पद्मके| सर अलमनेनासंबद्धप्रलापेन, पठ तावत्किंचिच्चारुप्रश्नोत्तरं, ततः सहासमभिहितमनेन यदाज्ञापयति कुमारः, पठितं च-पश्यन् विस्फारिताक्षोऽपि, वाचमाकर्णयन्नपि । कस्य को याति नो तृप्ति, किं च संसारकारणम् ? ॥ १२५ ॥ हरिकुमारेण तु तया चित्रोपलब्धकन्यकयाऽपहतचित्तेन दत्तः शून्यो हुङ्कारः, पद्मकेसरेण चिन्तितं-नेदं प्रायः सम्यगवधारितं कुमारेण, ततः पुनः स्फुटतरं पठामि, पठितमनेन, पुनर्दत्तो हरिकुमारेण शून्य एव हुङ्कारः, ततो लक्षितं पद्मकेसरेण यथा शून्यीकृतहृदयोऽयमनया चित्रकन्यकया, ततो
प्रश्नोत्तराणि
॥५६॥
Jain Education in de
For Private & Personel Use Only
Anaw.jainelibrary.org