SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ६-प्र. ॥५५९॥ समुपागतः ॥ ११०॥ ततो हरिकुमारोऽसौ, गृहीत्वा मित्रमण्डलम् । बंभ्रमीति मया युक्तो, दिक्षुः काननश्रियम् ॥ १११ ।। अथ | चूतवनं प्राप्य, प्रकूजत्कलकोकिलम् । सहितो मित्रवृन्देन, निविष्टस्तत्र लीलया ।। ११२ ॥ यावज्जराविशीर्णाङ्गी, रौद्राकारविधारिणी । चित्रप्राप्ति आशीर्वादं च कुर्वाणा, व्रतिनी काचिदागता ।। ११३ ।। अथ प्रणामसम्भाषैः, कुमारेणाभिनन्दिता । सा दर्शयति सानन्द, चित्रविन्य-15 स्तकन्यकाम् ॥ ११४ ॥ तां चार्पयित्वा सा प्रौढा, गाढदर्शितविक्रिया । कुमारभावं पश्यन्ती, संस्थिता स्तिमितेक्षणा ।। ११५ ।। ततः कुमारमाक्षिप्तं, सविकारं विलोक्य सा । ब्रजामीत्यभिधायोच्चैः, शीघ्रमेव विनिर्गता ॥ ११६ ॥ कुमारोऽपि च तां पश्यन्नशरीरशरेरितः ।। विकारकातरः सर्वैर्वयस्यैरुपलक्षितः॥ ११७ ॥ यतः–क्षणं हुकारकरणं, क्षणं मूर्ध्नः प्रकम्पनम् । क्षणं च स्फोटिकादानं, क्षणमव्यक्तभाषणम् ।। ११८॥ क्षणं दीर्घोष्णनिःश्वासं, क्षणं च करवूननम् । मुहुर्मुहुश्चित्रगतो, तां वीक्ष्य कुरुते हरिः॥ ११९॥ युग्मम् । क्षणं स्मेरमखोऽत्यन्तं, विस्फारयति लोचने । क्षणं निष्पन्दमन्दाक्षः, स्निग्धचक्षुर्निरीक्षते ॥ १२०॥ ततोऽभिहितं स्मितबन्धुरं मन्मथेन-कुमार ! मित्रा| किमिदमात्मगतविविधरससारमप्रकटितकरणाङ्गहारं नरीनृत्यते?, ततः कृतमाकारसंवरणं हरिणा, अभिहितमनेन-अहो रञ्जितोऽहम-15 लापाः नेन चित्रकरकौशलेन, तथाहि-अत्र सुविशुद्धा रेखा संगतानि भूषणानि उचितकमा वर्णविच्छित्तिः परिस्फुटो भावातिशय इति, दुष्करं च चित्रे भावाराधनं तदेव चाभिमतमतिविदग्धानां तस्य चात्र प्रकर्षः परिस्फुटो दृश्यते यस्मादुपारूढयौवना समदना चेयमा-2 लिखिता कन्यका तदस्याः सम्बन्धिनममुं भावविशेषमनिवेदितमपि लक्षयन्ति बालका अपि किमुत विद्वांसः ?, तथाहि-लावण्यमु-13 निरन्तीव, प्रोद्भिन्नस्तनचूचुका । एषा प्रोद्दामतारुण्यमात्मानं कथयत्यलम् ।। १२१ ।। उन्नामितैकभ्रम.लीलामन्थरितेक्षणा । मन्दं नि-16 ॥५५९॥ वेदयत्येषा, वचनैरिव कन्यका ॥ १२२ ॥ कपोलस्फुरितैर्दिव्यैः, स्मेरवक्राब्जबन्धुरा । विभाव्यतेऽतिलोलाक्षी, वहन्ती मकरध्वजम् Jain Education Inte For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy