________________
उपमितौ प. ६-प्र.
।। ५५५ ।।
Jain Education Int
यत्तदा न कृतं भद्रे !, सागरस्येच्छया मया ॥ ७४ ॥ नास्ति मे पातकाशङ्का, न तदा केशभीरुता । न सुखेच्छा न वा तोषस्तस्याज्ञावशवर्तिनः ॥ ७५ ॥ अथानेकमहापापैर्मया कालेन भूयसा । पुण्योदयस्य माहात्म्यात्सा कोटिः परिपूरिता ॥ ७६ ॥ ततः स सागरो भूयः, प्रवृत्तोत्साहसाहसः । अवाप्तप्रसरो नित्यं प्रेरयत्येव मामलम् ॥ ७७ ॥ कथं ? — यथेदं मत्प्रसादेन, संपन्नं विपुलं धनम् । तथोत्साहेन ते रत्नकोटयोऽपि न दुर्लभाः ॥ ७८ ॥ ततः संपादिता तेन, बुद्धिः सागरलङ्घने । मम रत्नौघलाभाय देवैरप्यनिवर्तिका ॥७९॥ ततः कथितो बकुलश्रेष्ठिने मया निजोऽभिप्रायः, तेनाभिहितं वत्स ! - यथा यथाऽयं पुरुषः, पूर्यते भूरिभिर्धनैः । तथा तथाsस्य गुरवो, विवर्धन्ते मनोरथाः ||८०|| नैव ते विनिवर्तन्ते, रत्नकोटिशतैरपि । को हि वैश्वानरं दीप्तमिन्धनैस्तर्पयिष्यति ? ॥ ८१ ॥ तत्सन्तोषः परं श्रेयान्नार्जितं विपुलं धनम् । इदमेव नियुञ्जानस्तिष्ठात्रैव निराकुलः ॥ ८२ ॥ मयोक्तं तात ! मा मैवं वद, यतः - | यावन्नरो निरारम्भस्तावल्लक्ष्मीः पराङ्मुखा । सारम्भे तु नरे लक्ष्मीः, स्निग्धलोलविलोचना ॥ ८३ ॥ आश्लिष्टमपि मुश्चेत्सा, | नरं साहसवर्जितम् । कुलटेव विटभ्रान्त्या, गृहीतं दुर्भगं नरम् ॥ ८४ ॥ निर्माप्य कार्यं योऽन्यत्र, दत्तधीस्तं निरीक्षते । कमला कुलबालेव, व्याक्षिप्तं लज्जया प्रियम् ॥ ८५ ॥ विषमस्थोऽपि यो धीरो, धनोत्साहं न मुञ्चति । वक्षःस्थले पतत्युच्चैस्तस्य लक्ष्मीः | स्वयंवरा ॥ ८६ ॥ यो वनाति धिया धीरो, विक्रमेण नयेन च । पद्मा प्रतीक्षते तं भो, यथा प्रोषितभर्तृका ॥ ८७ ॥ यस्तु स्तोकां समासाद्य, लक्ष्मीं तुष्यति मानवः । तं तुच्छप्रकृतिं मत्वा सा लक्ष्मीर्नाभिवर्धते ॥ ८८ ॥ इत्येवं स्वगुणैः पद्मां, यो नरो नैव रञ्जयेत् । सिद्धोऽपि न भवेत्तस्य, प्रेमाबन्धश्चिरं तया ।। ८९ ।। तस्मान्न तोष: कर्तव्यो विदुषा धनसङ्ग्रहे । अतस्तातोऽनुजानातु, रत्नद्वीपे गमं मम ॥ ९० ॥ श्रेष्ठिनोक्तं – वत्स ! पाताले मेरुशिखरे, रत्नद्वीपे गृहेऽपि च । पूर्वोपात्तं भवेत् पुंसः, सोद्यमस्ये
For Private & Personal Use Only
द्वीपान्तरगमनं
।। ५५५ ।।
www.jainelibrary.org