________________
उपमितौ ष. ६-अ.
रोदननिपारणं
॥५५२॥
RSSC
त्राभ्यां, ततोऽहं रुदतोस्तयोः ॥ ४५ ॥ ततः पौरुषमवलम्ब्य स्थापिता रुदती हरिशेखरेण बन्धुमती, अभिहितमनेन-प्रियतमे ! मा दिहि, हर्षस्थानमेतत् , तथाहि-"या साहसविनिर्मुक्तमलसं दैवतत्परम् । निर्वीर्य जनयेत्पुत्रं, सा हि रोदितुमर्हति ॥ ४६॥" त्वया तु जनितो धीरः, सुतोऽयं कुलभूषणः। निर्व्याजसाहसस्तस्मान्नास्ति रोदनकारणम् ॥४७॥ अयं नूनं गुणोऽस्माकं, व्यवसायपरायणः । यदेष पुत्रको नातस्ततो मुञ्च विषादिताम् ॥४८॥ इति, इतश्च निर्गतोऽहं नगराद्गन्तुं प्रवृत्तो दक्षिणसमुद्रवेलाकूलाभिमुखं प्राप्तश्च क्रमेणोदधितटाभ्यर्णवर्तिनि जयपुरे निषण्णो बहिष्कानने, तत्र तु चिन्तितुं प्रवृत्तः, कथं ? -विलसल्लोलकल्लोलमालं किं मकराकरम् । लयित्वा ब्रजाम्युङ, रत्नद्वीपे धनाकरे? ॥ ४९ ॥ किं वा रणे विनिर्भिद्य, हठादीश्वरमण्डलम् । तल्लक्ष्मी स्वीकरोम्यस्या, न दुष्टो हि स्वयंप्रहः ॥ ५० ॥ किं वा पाटितदोर्दण्डखण्डै रुधिरपिच्छलैः । चण्डिका तर्पयित्वोच्चैस्तुष्टां तां धनमर्थये ॥५१॥ किं वा रात्रिंदिवं शेषव्यापाररहितः स्वयम् । खनामि रोहणं यावत्पातालतलमुच्चकैः ॥ ५२ ॥ अहो मिरिदरीं गत्वा, संप्राप्य रसकूपिकाम् । धातुवादबलेनैव, दधे खर्ण यथेच्छया ॥ ५३॥ एवं विविधकल्लोलैर्धनोपार्जनकाम्यया । मित्र! सागरवीर्येण, हतोऽहं बहुशस्तदा ।। ५४ ॥ अत्रान्वरे सचिन्तस्व, दृष्टिस्तरलतारिका । पुरःस्थिते गता भद्रे !, मम किंशुकपादपे ॥ ५५ ॥ यावद्विनिर्गतस्तस्य, शाखाया वीक्षितो मया । प्रायेहो भूमिसंप्राप्तः, कशीयान् कृतविस्मयः ।। ५६ ॥ तं च किंशुकपादपप्रारोहमवलोक्य स्मृतो मयाऽभिनवशिक्षितः खन्यवादः, चिन्तितं च-नूनमस्त्यत्र किंचिद्धनजातं, यतोऽभिहितं खन्यवादे-नास्त्येव क्षीरवृक्षस्य, प्रारोहो धनवर्जितः । स्त्रोकं वा भूरि वा तत्र, ध्रुवं विस्वपलाशयोः ॥ ५७ ॥ प्रारोहे भूरि बत् स्थूले, तनुके स्तोकमुच्यते । रात्रौ ज्वलति तरि, सोष्मणि स्वल्पमीरितम् ॥ ५८ ॥ विद्धे तत्र भवेद्रवं, यदि खानि लक्षयेत् । अथ क्षीरं ततो रूप्यं, पीलं चेत् कनकं भवेत् ॥ ५९॥ प्रारोहः स्यादुपर्युचैर्यन्मात्रेऽधोऽपि
शिकीयः खन्यवादः
54545455
॥५५२॥
Jain Education
:
For Private & Personel Use Only
R
ww.jainelibrary.org