SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. ।। ५५० ॥ Jain Education In संप्राप्तो यौवनं भद्रे !, मीनकेतनमन्दिरम् ॥ १६ ॥ अथ कश्वित्समासाद्य, कलाचार्यं तदा मया । एकां धर्मकलां मुक्त्वा, गृहीताः सकलाः कलाः ॥ १७ ॥ संपादिताः स्ववीर्येण, चित्तकल्लोलकाच मे । तदाऽनेन वयस्येन, सागरेण क्षणे क्षणे ॥ १८ ॥ अथ कीदृशाः पुनस्ते सागरवीर्योल्लासिताश्चित्त कल्लोलाः संपादिताः ? – “धनमत्र जगत्सारं, धनमेव सुखाकरः । धनमेव जनश्लाघ्यं धनमेव गुणाधि“कम् ॥ १९ ॥ धनमेव जगद्वन्द्यं धनं तत्तत्त्वमुत्तमम् । धनं हि परमात्मेति, धने सर्व प्रतिष्ठितम् ॥ २० ॥ धनेन रहितो लोके, “पुरुषः परमार्थतः । तृणं भस्माशुचिर्धूलिर्यद्वा नास्त्येव किश्चन ॥ २१ ॥ धनादिन्द्रो धनाद्देवा, धनादेते महीभुजः । अन्येभ्योऽभ्य“धिका भान्ति, नान्यत्किञ्चन कारणम् ॥ २२ ॥ एको दाता परोऽर्थीति, स्वाम्येकः सेवकोऽपरः । पुरुषत्वे समानेऽपि, धनस्येदं वि“जृम्भितम् ॥ २३ ॥ तदत्र परमार्थोऽयं, सर्वयत्नेन तद्धनम् । स्वीकर्तव्यं नरेणोच्चैरन्यथा जन्म निष्फलम् ॥ २४ ॥” एवं च स्थिते कुल क्रमागतं भूरि, यद्यप्यस्ति गृहे धनम् । ममाऽऽत्मीयं तथाऽप्यन्यदर्जयामि ततोऽधिकम् ॥ २५ ॥ कुतः सुखासिका तावज्जायेत मम मानसे । विलसद्दीप्तयो यावन्न दृष्टा रत्नराशयः ? ॥ २६ ॥ गत्वा देशान्तरं कृत्वा, सर्वकर्माणि सर्वथा । मयाऽऽत्मभवनं कार्य, रत्नराशिप्रपूरितम् ॥ २७ ॥ ततोऽनेकविकल्पैस्तैराकुलीकृतमानसः । तदाऽगृहीतसङ्केते !, ताताभ्यर्णमहं गतः ॥ २८ ॥ उक्तं च मया - तात! मामनुजानीहि धनोपार्जनकाम्यया । गच्छाम्यहं विदेशेषु करोमि पुरुषक्रियाम् ॥ २९ ॥ हरिशेखरेणोक्तं- विद्यते विपुलं वत्स !, कुलक्रमसमागतम् । धनं ते दानसम्भोगविलासकरणक्षमम् ॥ ३० ॥ तत्तदेव धनं वत्स !, नियुञ्जानो यथेच्छया । गृहे तिष्ठ न शक्तो-५ ऽस्मि, स्थातुं हि रहितस्त्वया ॥ ३१ ॥ मयोक्तं - या पूर्वपुरुषैस्तात !, भूरिलक्ष्मीरुपार्जिता । तां भुञ्जानस्य सत्पुंसः, कथं न त्रपते ॥ ५५० ॥ मनः १ ॥ ३२ ॥ मातेव स्तनपानेन, सा बालैः परिभुज्यते । अवाप्तपौरुषाणां तु, तद्भोगो लज्जनीयकः ॥ ३३ ॥ भुज्यमाना च सा I For Private & Personal Use Only सागर महिमा धनार्ज - नाय प्र वासः www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy