SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ धनशेख उपमितौ प. ६-प्र. ॥५४९॥ रजन्म अथ षष्ठः प्रस्तावः। 000000अथास्ति सबतानन्दमन्दिरं दोषदूरमम् । आनन्दनामक लोके, बहिरवं महापुरम् ॥ १॥ विलासोल्लासलावण्यललिता लोचन-1 नराः । सोन्मेषैर्यत्र भाव्यन्ते, देवेभ्योऽभिन्नमूर्तयः ॥ २ ॥ आकृष्टदृष्टयो नृणां, नार्यों निष्पन्दलोचनाः । यत्र संपादयन्त्युच्चैरमराकार-| धारिवाम् ॥ ३ ॥ चित्रांशुरनसञ्चारतारं गन्न विभाव्यते । आखण्डलधनुर्दण्डखण्डमण्डितमम्बरम् ॥ ४ ॥ परेभकुम्भनिर्भेदवर्धितोत्साहसाहसः । तत्राकान्तमहीपीठः, केसरी नाम भूपतिः ॥५॥ अनेकसुन्दरीवृन्दमध्ये लब्धपताकिका । देवी कमलपत्राक्षी, तस्यास्ति जयसुन्दरी ॥६॥ अथास्ति नगरे तत्र, बल्लभस्तस्य भूपतेः । निःशेषनगराधारो, बाणिजो हरिशेखरः॥७॥ येन मेघायितं दानादर्थिसस्पेषु सर्वदा । सुहृत्कमलखण्डेषु, सततं भास्करायितम् ॥ ८॥ तस्यास्ति हृदयस्येष्टा, लावण्यामृतकुण्डिका । साध्वी बन्धुमती नाम, भार्याऽऽर्यकुलसम्भवा ॥ ९॥ या रूपमिव रूपस्य, प्रत्यादेश इव श्रियः । आवास इव शीलस्य, भर्तृभक्तेस्तु मन्दिरम् ॥ १०॥ | अथागृहीतसङ्केते!, भवितव्यतया तया । तदाऽहं गुटिकादानात्तस्याः कुक्षौ प्रवेशितः ॥ ११ ॥ ततः संपूर्णकालेन, मित्राभ्यां परिवारितः । नरकादिव निष्क्रान्तो, योनियनिपीडितः ॥ १२ ॥ ततो बन्धुमती तुष्टा, मुदितो हरिशेखरः। संजातं पुत्रजन्मेति, कारितश्च महोत्सवः ॥ १३ ॥ आनन्दपूर्वकं ताभ्यां, द्वादशाहेऽतिलजिते । प्रतिष्टितं च मे नाम, यथाऽयं धनशेखरः॥ १४ ॥ जातावपि मया सार्ध, तौ पुण्योदयसागरौ । अन्तरजवयस्यौ मे, जनकाभ्यां न लक्षितौ ॥ १५ ॥ ततोऽहं सहितस्ताभ्यां, वर्धमानः सुखैः किल ।। Jain Education Internet For Private & Personel Use Only wow.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy