________________
&॥ ७२१ ॥ इदं निश्चित्य हृदये, स भव्यपुरुषस्तदा । वचः संसारिजीवस्य, तूष्णीमाकर्णयन् स्थितः ॥ २ ॥ मुखं संसारिजीवस्य,
पश्यन्ती विस्मितेक्षणा । स्थिताऽगृहीतसङ्केता, सम्यगज्ञातभावना ॥ ७२३ ॥ सदागमस्तु भगवानिःशेषं न चेष्टितम् । वेत्ति संसारि
जीवस्य, ततो मौनेन संस्थितः ॥ ७२४ ॥ संसारिजीवेनोक्तं अथाहमन्यदा भद्र!, तुष्टया चिजमार्यया । संजातकृपया प्रोक्तः, केन& चिच्छुभकर्मणा ॥ ७२५ ॥ त्वयाऽऽर्यपुत्र! गन्तव्यमधुना लोकविश्रुते । आनन्दनगरे तत्र, वस्तव्यं चारुलीलया ।। ७२६ ॥ मयोक्तं
-यदेवि ! रोचते तुभ्यं, कर्तव्यं तन्मया ध्रुवम् । ततः पुण्योदयो भूयः, स तया मे निदर्शितः ॥ ७२७ ॥ तथाऽन्यः सागरो नाम, सहायो मे निरूपितः । प्रस्तावोऽस्येति विज्ञाय, भवितव्यतया तया ॥ ७२८ ॥ उक्तं च-मूढतानन्दनो नाम, रागकेसरिणोऽङ्गजः। मयाऽयं विहितोऽद्यैव, सहायस्ते मनोहरः ॥ ७२९ ॥ ततोऽहं सहितस्ताभ्यां, सहायाभ्यां प्रवर्तितः । आनन्दनगरे गन्तुं, गुटिकादान| योगतः ॥ ७३० इति ॥ ॥ ये घ्राणमायानृतचौर्यरक्ता, भवन्ति पापिष्ठतया मनुष्याः । इहैव जन्मन्यतुलानि तेषां, भवन्ति दुःखानि बिडम्बनाश्च ॥ ७३१ ॥ तथा परत्रापि च तेषु रक्ताद, पतन्ति संसारमहासमुद्रे । अनन्तदुःखौघचितेऽतिरौद्रे, तेषां ततश्चोत्तरणं कुतस्त्यम् ? ॥ ७३२ ॥ जैनेन्द्रादेशतो वः कथितमिदमहो लेशतः किञ्चित्र, प्रस्तावे भावसारं कृतविमलधियो गाढमध्यस्थचित्ताः । एत| द्विज्ञाय भो भो मनुजगतिगता ज्ञाततत्त्वा मनुष्याः, स्तेयं मायां च हित्वा विरड्यत ततो घ्राणलाम्पट्यमुच्चैः ।। ७३३ ।। इत्युपमितिभवमपश्चायां कथायां मायास्तेयघाणेन्द्रियविपाकवर्णनः पञ्चमः प्रस्तावः समाप्तः॥
॥ इति श्रीसिद्धर्षिमुनिविहितायामुपमितिभवप्रपञ्चकथायां पञ्चमः प्रस्तावः॥
सागरेण | सह आनन्दपुरे संसारिणो गमनं
RSS
५४८॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org