SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रज्ञाविशालादीनां विचाराः उपमितौरुषस्तत्र, चिन्तयामास विस्मितः॥ ७.३ ॥ अपूर्वमिदमस्याहो, तस्करस्यातिजल्पितम् । अतिचित्रमसंभाव्यं, लोकमार्गातिदूरगम् प.५-अ. ॥ ७०४ ॥ अप्रसिद्धं ममात्यन्तं, हृदयाक्षेपकारि च । तदस्य परमार्थों यः, स मया नावधारितः ॥ ७०५ ॥ तथाहि-पूर्व तावदने नोक्तं, यथाऽऽसीत्किल सर्वदा । पुरेऽसंव्यवहाराख्ये, वास्तव्योऽहं कुटुम्बिकः ॥ ७०६ ॥ कालं तत्र स्थितोऽनन्तं, भवितव्यतया | ॥५४७॥ सह । खकर्मपरिणामाख्यराजादेशेन निर्गतः ॥ ७०७ ॥ एकाक्षपशुसंस्थाने, तथाऽन्येषु च भूरिषु । तथाविधेषु स्थानेषु, भ्रान्तो दुःखैः प्रपूरितः ॥ ७०८ ॥ अन्यच्चेदमनेनोक्तमनन्तं कालमेकशः । सर्वेषु तेषु स्थानेषु, नाटितः किल भार्यया ॥ ७०९ ॥ तथाहि-नन्दि-| वर्धनरूपेण, रिपुदारणलीलया । वामदेवविधानेन, किलाहं भ्रमितस्तया ।। ७१० ॥ अतीतोऽनन्तकालश्च, सर्वेषामन्तराऽन्तरा । क| तान्यनन्तरूपाणि, तथाऽन्यानि स्वभार्यया ॥ ७११ ॥ गुटिकादानयोगेन, किलेदं विहितं तया । तदस्य चरितं सर्व, विरुद्धमिव भासते ॥ ७१२ ॥ तथाहि-पुरुषश्चेत्कथं तस्य, स्थितिः कालमनन्तकम् । किं वाऽजरामरो हन्त, भविष्यत्येष तस्करः ॥ ७१३ ॥ तावत्कालस्थितिर्हन्त, का चेयं भवितव्यता? । कथं वा निजभार्याऽपि, प्रतिकूलत्वमागता ! ॥ ७१४ ॥ का चेयं गुटिका नाम, महावीर्या यया कृतः । एकोऽप्यनन्तरूपोऽयं, भवितव्यतया तया ।। ७१५ ॥ अन्यच्च-नगराण्यन्तरङ्गाणि, मित्राणि स्वजनास्तथा । येऽमुना गदितास्तेऽपि, न मया परिनिश्चिताः ॥ ७१६ ॥ तदिदं स्वप्नसङ्काशमिन्द्रजालाधिकं गुणैः । अस्य संसारिजीवस्य, चरितं प्रतिभाति मे ॥ ७१७ ।। इयं च मुखरागेण, बुध्यमानेव लक्ष्यते । साध्वी प्रज्ञाविशालेदं, निःशेषं चरितं हृदि ।। ७१८ ॥ अन्यच्च-इदं मे लेशतः सर्व, निर्दिष्टमनया पुरा । अस्य संसारिजीवस्य, वृत्तं प्रज्ञाविशालया ॥ ७१९ ।। केवलं विस्मृतप्राय, मम तद्वर्ततेऽधुना । अकाण्डे पृच्छतश्वेत्थं, संजायेत ममाज्ञता ॥ ७२० ॥ तत्तावत्कथयत्वेष, तस्करो यद्विवक्षितम् । अहं तु प्रश्नयिष्यामि, पश्चादेनां रहःस्थिताम् ॥५४७॥ Jain Education men For Private & Personel Use Only Kuwww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy