SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रज्ञाविशालादीनां विचाराः उपमितौरुषस्तत्र, चिन्तयामास विस्मितः॥ ७.३ ॥ अपूर्वमिदमस्याहो, तस्करस्यातिजल्पितम् । अतिचित्रमसंभाव्यं, लोकमार्गातिदूरगम् प.५-अ. ॥ ७०४ ॥ अप्रसिद्धं ममात्यन्तं, हृदयाक्षेपकारि च । तदस्य परमार्थों यः, स मया नावधारितः ॥ ७०५ ॥ तथाहि-पूर्व तावदने नोक्तं, यथाऽऽसीत्किल सर्वदा । पुरेऽसंव्यवहाराख्ये, वास्तव्योऽहं कुटुम्बिकः ॥ ७०६ ॥ कालं तत्र स्थितोऽनन्तं, भवितव्यतया | ॥५४७॥ सह । खकर्मपरिणामाख्यराजादेशेन निर्गतः ॥ ७०७ ॥ एकाक्षपशुसंस्थाने, तथाऽन्येषु च भूरिषु । तथाविधेषु स्थानेषु, भ्रान्तो दुःखैः प्रपूरितः ॥ ७०८ ॥ अन्यच्चेदमनेनोक्तमनन्तं कालमेकशः । सर्वेषु तेषु स्थानेषु, नाटितः किल भार्यया ॥ ७०९ ॥ तथाहि-नन्दि-| वर्धनरूपेण, रिपुदारणलीलया । वामदेवविधानेन, किलाहं भ्रमितस्तया ।। ७१० ॥ अतीतोऽनन्तकालश्च, सर्वेषामन्तराऽन्तरा । क| तान्यनन्तरूपाणि, तथाऽन्यानि स्वभार्यया ॥ ७११ ॥ गुटिकादानयोगेन, किलेदं विहितं तया । तदस्य चरितं सर्व, विरुद्धमिव भासते ॥ ७१२ ॥ तथाहि-पुरुषश्चेत्कथं तस्य, स्थितिः कालमनन्तकम् । किं वाऽजरामरो हन्त, भविष्यत्येष तस्करः ॥ ७१३ ॥ तावत्कालस्थितिर्हन्त, का चेयं भवितव्यता? । कथं वा निजभार्याऽपि, प्रतिकूलत्वमागता ! ॥ ७१४ ॥ का चेयं गुटिका नाम, महावीर्या यया कृतः । एकोऽप्यनन्तरूपोऽयं, भवितव्यतया तया ।। ७१५ ॥ अन्यच्च-नगराण्यन्तरङ्गाणि, मित्राणि स्वजनास्तथा । येऽमुना गदितास्तेऽपि, न मया परिनिश्चिताः ॥ ७१६ ॥ तदिदं स्वप्नसङ्काशमिन्द्रजालाधिकं गुणैः । अस्य संसारिजीवस्य, चरितं प्रतिभाति मे ॥ ७१७ ।। इयं च मुखरागेण, बुध्यमानेव लक्ष्यते । साध्वी प्रज्ञाविशालेदं, निःशेषं चरितं हृदि ।। ७१८ ॥ अन्यच्च-इदं मे लेशतः सर्व, निर्दिष्टमनया पुरा । अस्य संसारिजीवस्य, वृत्तं प्रज्ञाविशालया ॥ ७१९ ।। केवलं विस्मृतप्राय, मम तद्वर्ततेऽधुना । अकाण्डे पृच्छतश्वेत्थं, संजायेत ममाज्ञता ॥ ७२० ॥ तत्तावत्कथयत्वेष, तस्करो यद्विवक्षितम् । अहं तु प्रश्नयिष्यामि, पश्चादेनां रहःस्थिताम् ॥५४७॥ Jain Education men For Private & Personel Use Only Kuwww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy