SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ७ वामदेवस्य उपमितौ प. ५-प्र. IPI कुमरणं ॥५४६॥ दोषत्वादस्यैवंविधसाहसम् । संभाव्यं नापरस्येति, प्राहितस्तेन भूभुजा ॥ ६८५ ॥ अनेकयातनाभिश्च, नानारूपैर्विडम्बनैः । ततोऽहं गाढरुष्टेन, तेन भद्र! कदर्थितः ॥ ६८६ ॥ न स्थितः सरलस्यापि, वचनेन नराधिपः । उल्लम्बितो विशालाक्षि!, ततोऽहं विरटन्नलम् ॥ ६८७ ।। अत्रान्तरे च सा जीर्णा, गुटिका मम पूर्विका । भवितव्यतया दत्ता, ततोऽन्या गुटिका मम ॥ ६८८ ॥ तस्याः प्रभावतो भद्रे!, तीव्रदुःखौघसम्पदि । गतः पापिष्टवासायां, नगर्यामन्त्यपाटके ।। ६८९ ॥ तत्रानुभूय दुःखानि, तीत्रानन्तानि विह्वलः । असंख्यकालं भूयोऽपि, गुटिकादानयोगतः ॥६९०॥ पञ्चाक्षपशुसंस्थाने, समागत्य पुरे ततः । भ्रान्तोऽहं बहुशोऽन्येषु, नगरेषु पुनः पुनः ॥ ६९१ ॥ तन्नास्ति नगरं भद्र !, प्रामो वा वरलोचने! । मुक्त्वाऽसंव्यवहाराख्यं, बहुशो यन्न वीक्षितम् ॥ ६९२ ॥ तथापि पशुसंस्थाने, योपिदाकारधारकः । बहुशो बहुलिकादोषाद्विशेषेण विडम्बितः ॥६९३॥ सोढानि नानादुःखानि, स्थाने स्थाने मया तदा । ताभ्यां पापवयस्याभ्यां, प्रेरितेन वरानने! ॥ ६९४ ॥ एवं वदति संसारिजीवे प्रज्ञाविशालया । इदं विचिन्तितं गाढं, संवेगापन्नचित्तया ।। ६९५ ।। अहो दुरन्तः स्तेयोऽसौ, माया चात्यन्तदारुणा । ययोरासक्तचित्तोऽयं, वराको भूरि नाटितः ॥ ६९६ ॥ तथाहि-वश्चितस्तादृशोऽनेन, महात्मा विमलः पुरा । तन्माहात्म्येन लोके च, गतोऽयं तृणतुल्यताम् ॥ ६९७ ॥ सरलो वत्सलः स्निग्धो, मुषित्वा च प्रतारितः। प्राप्तोऽयं तत्प्रसादेन, तत्र घोरविडम्बनम् ॥ ६९८ ॥ तथा ययं तादृशेनापि, महाभागेन सूरिणा । बुधेन बोधितो नासीत् , सा माया तत्र कारणम् ॥ ६९९ ॥ ब्रुवाणस्यापि सद्भूतं, न प्रत्येति स्म यज्जनः । धिकरोति च तत्रापि, सैव मायाऽपराध्यति ।। ७०० ॥ | यदन्यजनितेनापि, दोषेणार्य विवाधितः । संसारिजीवस्तत्रापि, स्तेयो माया च कारणम् ॥ ७०१ ॥ एवं चानन्तदोषाणामाकरस्ते दुरा| त्मिके । तथापि लोकः पापिष्ठः, स्तेयमाये न मुञ्चति ॥ ७०२ ॥ अन्यच्च-तथा संसारिजीवे भोः, कथयत्यात्मचेष्टितम् । स भव्यपु प्रज्ञावि. शालादीनां विचाराः ॥५४६॥ Jain Education Interio For Private & Personal Use Only Khow.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy