________________
७
वामदेवस्य
उपमितौ प. ५-प्र.
IPI
कुमरणं
॥५४६॥
दोषत्वादस्यैवंविधसाहसम् । संभाव्यं नापरस्येति, प्राहितस्तेन भूभुजा ॥ ६८५ ॥ अनेकयातनाभिश्च, नानारूपैर्विडम्बनैः । ततोऽहं गाढरुष्टेन, तेन भद्र! कदर्थितः ॥ ६८६ ॥ न स्थितः सरलस्यापि, वचनेन नराधिपः । उल्लम्बितो विशालाक्षि!, ततोऽहं विरटन्नलम् ॥ ६८७ ।। अत्रान्तरे च सा जीर्णा, गुटिका मम पूर्विका । भवितव्यतया दत्ता, ततोऽन्या गुटिका मम ॥ ६८८ ॥ तस्याः प्रभावतो भद्रे!, तीव्रदुःखौघसम्पदि । गतः पापिष्टवासायां, नगर्यामन्त्यपाटके ।। ६८९ ॥ तत्रानुभूय दुःखानि, तीत्रानन्तानि विह्वलः । असंख्यकालं भूयोऽपि, गुटिकादानयोगतः ॥६९०॥ पञ्चाक्षपशुसंस्थाने, समागत्य पुरे ततः । भ्रान्तोऽहं बहुशोऽन्येषु, नगरेषु पुनः पुनः ॥ ६९१ ॥ तन्नास्ति नगरं भद्र !, प्रामो वा वरलोचने! । मुक्त्वाऽसंव्यवहाराख्यं, बहुशो यन्न वीक्षितम् ॥ ६९२ ॥ तथापि पशुसंस्थाने, योपिदाकारधारकः । बहुशो बहुलिकादोषाद्विशेषेण विडम्बितः ॥६९३॥ सोढानि नानादुःखानि, स्थाने स्थाने मया तदा । ताभ्यां पापवयस्याभ्यां, प्रेरितेन वरानने! ॥ ६९४ ॥ एवं वदति संसारिजीवे प्रज्ञाविशालया । इदं विचिन्तितं गाढं, संवेगापन्नचित्तया ।। ६९५ ।। अहो दुरन्तः स्तेयोऽसौ, माया चात्यन्तदारुणा । ययोरासक्तचित्तोऽयं, वराको भूरि नाटितः ॥ ६९६ ॥ तथाहि-वश्चितस्तादृशोऽनेन, महात्मा विमलः पुरा । तन्माहात्म्येन लोके च, गतोऽयं तृणतुल्यताम् ॥ ६९७ ॥ सरलो वत्सलः स्निग्धो, मुषित्वा च प्रतारितः। प्राप्तोऽयं तत्प्रसादेन, तत्र घोरविडम्बनम् ॥ ६९८ ॥ तथा ययं तादृशेनापि, महाभागेन सूरिणा । बुधेन बोधितो नासीत् , सा माया तत्र कारणम् ॥ ६९९ ॥ ब्रुवाणस्यापि सद्भूतं, न प्रत्येति स्म यज्जनः । धिकरोति च तत्रापि, सैव मायाऽपराध्यति ।। ७०० ॥ | यदन्यजनितेनापि, दोषेणार्य विवाधितः । संसारिजीवस्तत्रापि, स्तेयो माया च कारणम् ॥ ७०१ ॥ एवं चानन्तदोषाणामाकरस्ते दुरा| त्मिके । तथापि लोकः पापिष्ठः, स्तेयमाये न मुञ्चति ॥ ७०२ ॥ अन्यच्च-तथा संसारिजीवे भोः, कथयत्यात्मचेष्टितम् । स भव्यपु
प्रज्ञावि.
शालादीनां विचाराः
॥५४६॥
Jain Education Interio
For Private & Personal Use Only
Khow.jainelibrary.org