SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ धवलराजविमला दिदीक्षा उपमितौ गृह्यताम् ॥ ६१९ ॥ प्रबोधकारणं भूप!, सदिदं संविधानकम् । मम संपन्नमेसखि, तुल्यं युष्माशामपि ॥ ६२० ॥ यतः-विचरन्ति प.५-प्र. सदा तानि, मानुषाणि जगत्रये । तत्पृष्ठतोऽनुधावन्ति, महामोहादिशत्रवः ॥ ६२१॥ ततश्च-यो यस्तैः प्राप्यते प्राणी, स सर्वो गा ढदारुणैः । निर्मिद्य खण्डशः कृत्वा, क्षणेनैव विलुप्यते ॥ ६२२ ।। इदमेव परं भूप!, निर्भयस्थानमुत्तमम् । अमीभिर्खप्यमानस्य, जै-1 ॥५४१॥ नेन्द्रं वरशासनम् ॥ ६२३ ॥ एवं च ज्ञाततत्त्वानां, प्रवेष्टुमिह युज्यते । म युक्तं क्षणमप्मेकं, क्यनाथ! विलम्बितुम् ॥ ६२४ ॥ त्य४ज्यन्तां विषया भूप!, कालकूटविषोपमाः । आस्वाद्यतामिदं दिव्यं, प्रशमामृतमुत्तमम् ॥ ६२५ ॥ ततो धवलराजेन, विहस्य विमलः क्षणम् । तथा सर्वेऽपि ते लोकाः, साकूतं प्रविलोकिताः ॥ ६२६ । उक्तं च-भो भो लोका! यदादिष्टं, भदन्तेन महात्मना । इदमाकर्णितं चित्ते, लग्नं च भवतां बचः ॥ ६२७ ॥ ततस्ते बुधसद्धानोः, प्रतापेन प्रबोधिताः । कमलाकरसङ्काशाः, प्रोत्फुल्मुखपङ्कजाः ॥ ६२८ ॥ भक्त्या ललाटपट्टेषु, विन्यस्तकरकुड्मलाः । सर्वेऽपि लोकास्तदं, समकालं प्रभाषिताः ।। ६२९॥ बाढमाकर्णितं देव!, बचोऽस्माभिर्महात्मनः । विज्ञातस्तस्य सद्भावो, महाभागप्रसादतः॥ ६३०॥ विधूयाज्ञानतामिस्र, मनोऽनेन प्रकाशितम् । जीविताश्चामृतेनेव, मिथ्यात्वविषघूर्णिताः ॥ ६३१ ॥ तल्लनमिदमस्माकं, चित्ते गाढं मुनेर्वचः । संपाद्यतां तदादिष्टं, मा विलम्बो विधीयताम् । ६३२ ॥ एतच्चाकर्ण्य राजेन्द्रः, परं हर्षमुपागतः । ततो राज्याभिषेकार्थ, विमलं प्रत्यवोचत ॥ ६३३ ।। गृहामि पुत्र! प्रव्रज्यां, राज्यं त्वमनुशीलय । पुण्यैमें भगवानेष, संपन्नो गुरुरुत्तमः ॥ ६३४ ॥ विमलः प्राह किं तात!, नाहं ते चित्तबल्लभः । येन दुःखाकरे राज्ये, मां स्थापयितुमिच्छसि ॥ ६३५ ॥ इत्थं क्षिपसि मां तात!, संसारे दुःखपूरिते । स्वयं गच्छसि निर्वाणमहो ते तात! चारुता ॥६३६॥ ततो गाढतरं तुष्टस्तच्छ्रुत्वा वैमलं वचः । साधु साधूदितं वत्स!, न मुञ्चामीत्यभाषत ॥ ६३७ ॥ ततः कमलनामानं, राज्ये संस्थाप्य ॐॐॐॐ ॥१४॥ Jain Education intural For Private & Personel Use Only : ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy