SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. मन्ददशा ॥५४०॥ जनम् । ततस्तात! वयस्योऽयं, घ्राणनामा न सुन्दरः ॥ ६०१ ॥ वञ्चको मुग्धबुद्धीनां, पर्यटत्येष देहिनाम् । मानुषाणां तृतीयोऽयं, रागकेसरिमत्रिणाम् ।। ६०२ ॥ यावन्निवेदयत्येवं, बुधाय निजदारकः । मार्गानुसारिता तावदायाता भो नरेश्वर! ।। ६०३ ॥ समर्थितं तया सर्व, विचारकथितं वचः । त्यजामि घ्राणमित्येवं, बुधस्यापि हृदि स्थितम् ॥ ६०४ ॥ इतश्च-भुजङ्गतासमायुक्तो, घ्राणलालनलालसः । मन्दः सुगन्धिगन्धानां, सदाऽन्वेषणतत्परः ॥ ६०५॥ तत्रैव नगरे भूप!, लीलावत्याः कथंचन । स देवराजभाया, भगिन्या भवने गतः ॥ ६०६॥ ततश्च सपत्नीपुत्रघातार्थ, तस्मिन्नेव क्षणे तया । आत्तो डोम्बीकराद्गन्धसंयोगो मारणात्मकः ॥६०७॥ का ततश्च तां गन्धपुटिका द्वारे, मुक्त्वा लीलावती गृहे । प्रविष्टा स च संप्राप्तो, मन्दः सा तेन वीक्षिता ।। ६०८ ॥ ततो भुजङ्गताऽऽ देशाच्छोटयित्वा निरूपिताः । दत्ता घ्राणाय ते गन्धास्ततस्तेन दुरात्मना ।। ६०९ ।। ततश्चाघूर्णिते घ्राणे, तैर्गन्धैस्तस्य मूर्छया। नेहमो| हितचित्तत्वात्स मन्दः प्रलयं गतः ॥ ६१० ॥ ततो विनष्टमालोक्य, घ्राणलालनलम्पटम् । तं मन्दं घाणसम्पर्काविरक्तो नितरां बुधः P६११ ॥ ततश्च सा बुधेनेदं, पृष्टा मार्गानुसारिता । भद्रे! कथं ममानेन, संसर्गो न भविष्यति ॥ ६१२ ॥ मार्गानुसारिता प्राह, देव! हित्वा भुजङ्गताम् । तिष्ठ त्वं साधुमध्यस्थः, सदाचारपरायणः ॥ ६१३ ॥ ततोऽयं विद्यमानोऽपि, दोषसंश्लेषकारणम् । न ते संपत्स्यते देव!, ततस्त्यक्तो भविष्यति ॥ ६१४ ॥ बुधेनापि कृतं सर्व, विज्ञाय हितमात्मने । मार्गानुसारितावाक्यं, तत्तदा प्राप्य सद्गरुम् ॥ ६१५॥ ततो गृहीतदीक्षोऽसौ, साध्वाचारपरायणः । विज्ञातागमसद्भावो, गुरूपासनतत्परः ॥ ६१६ ॥ आचार्यैः पात्रता मत्वा, गच्छनिक्षेपकाम्यया । उत्पन्नलब्धिमाहात्म्यः, सूरिस्थाने निवेशितः ॥ ६१७ ॥ स एष भवतां भूप!, सत्प्रबोधविधित्सया । विहाय गच्छमेकाकी, बुधसूरिः समागतः ।। ६१८ ।। योऽयं निवेदयत्येवं, शृण्वन्ति च भवादृशाः। सोऽहमेव धरानाथ!, बुधनामेति बुधदीक्षा ॥५४०॥ Jain Education in a l For Private & Personel Use Only Plaww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy