________________
उपमितौ प. ५-प्र.
मन्ददशा
॥५४०॥
जनम् । ततस्तात! वयस्योऽयं, घ्राणनामा न सुन्दरः ॥ ६०१ ॥ वञ्चको मुग्धबुद्धीनां, पर्यटत्येष देहिनाम् । मानुषाणां तृतीयोऽयं, रागकेसरिमत्रिणाम् ।। ६०२ ॥ यावन्निवेदयत्येवं, बुधाय निजदारकः । मार्गानुसारिता तावदायाता भो नरेश्वर! ।। ६०३ ॥ समर्थितं तया सर्व, विचारकथितं वचः । त्यजामि घ्राणमित्येवं, बुधस्यापि हृदि स्थितम् ॥ ६०४ ॥ इतश्च-भुजङ्गतासमायुक्तो, घ्राणलालनलालसः । मन्दः सुगन्धिगन्धानां, सदाऽन्वेषणतत्परः ॥ ६०५॥ तत्रैव नगरे भूप!, लीलावत्याः कथंचन । स देवराजभाया, भगिन्या भवने गतः ॥ ६०६॥ ततश्च सपत्नीपुत्रघातार्थ, तस्मिन्नेव क्षणे तया । आत्तो डोम्बीकराद्गन्धसंयोगो मारणात्मकः ॥६०७॥ का ततश्च तां गन्धपुटिका द्वारे, मुक्त्वा लीलावती गृहे । प्रविष्टा स च संप्राप्तो, मन्दः सा तेन वीक्षिता ।। ६०८ ॥ ततो भुजङ्गताऽऽ
देशाच्छोटयित्वा निरूपिताः । दत्ता घ्राणाय ते गन्धास्ततस्तेन दुरात्मना ।। ६०९ ।। ततश्चाघूर्णिते घ्राणे, तैर्गन्धैस्तस्य मूर्छया। नेहमो| हितचित्तत्वात्स मन्दः प्रलयं गतः ॥ ६१० ॥ ततो विनष्टमालोक्य, घ्राणलालनलम्पटम् । तं मन्दं घाणसम्पर्काविरक्तो नितरां बुधः P६११ ॥ ततश्च सा बुधेनेदं, पृष्टा मार्गानुसारिता । भद्रे! कथं ममानेन, संसर्गो न भविष्यति ॥ ६१२ ॥ मार्गानुसारिता प्राह,
देव! हित्वा भुजङ्गताम् । तिष्ठ त्वं साधुमध्यस्थः, सदाचारपरायणः ॥ ६१३ ॥ ततोऽयं विद्यमानोऽपि, दोषसंश्लेषकारणम् । न ते संपत्स्यते देव!, ततस्त्यक्तो भविष्यति ॥ ६१४ ॥ बुधेनापि कृतं सर्व, विज्ञाय हितमात्मने । मार्गानुसारितावाक्यं, तत्तदा प्राप्य सद्गरुम् ॥ ६१५॥ ततो गृहीतदीक्षोऽसौ, साध्वाचारपरायणः । विज्ञातागमसद्भावो, गुरूपासनतत्परः ॥ ६१६ ॥ आचार्यैः पात्रता मत्वा, गच्छनिक्षेपकाम्यया । उत्पन्नलब्धिमाहात्म्यः, सूरिस्थाने निवेशितः ॥ ६१७ ॥ स एष भवतां भूप!, सत्प्रबोधविधित्सया । विहाय गच्छमेकाकी, बुधसूरिः समागतः ।। ६१८ ।। योऽयं निवेदयत्येवं, शृण्वन्ति च भवादृशाः। सोऽहमेव धरानाथ!, बुधनामेति
बुधदीक्षा
॥५४०॥
Jain Education in
a l
For Private & Personel Use Only
Plaww.jainelibrary.org