SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥५३८॥ ग्रामपुराणां च, स स्वामी नात्र संशयः ॥ ५७० ॥ एवं च स्थिते-न्यूयं वयं च ये चान्ये, केचिदान्तरभूभुजः । ते कर्मपरिणामाद्याः, सर्वे तस्यैव किङ्कराः ॥ ५७१ ॥ ततश्चैकमिदं राज्यं, सर्वेषामेक एव च । स्वामी संसारिजीवोऽतः, को विरोधः परस्परम् ॥ ५७२ ॥ यतः-शक्ताः स्वस्वामिनो भक्ताः, संहताश्च भवन्ति भोः । भृत्या बन्धूपमा नैव, स्वपक्षक्षयकारकाः ॥ ५७३ ॥ तदस्तु सततानन्दमतः | प्रभृति सुन्दरम् । युष्माभिः सह राजेन्द्र !, प्रेम नः प्रीतिवर्धनम् ॥ ५७४ ॥ इदं सत्योदितं सत्यं, वाक्यमाकर्ण्य सा सभा । महा महामोहः मोही महाक्षोभमथ प्राप्ता मदोद्धुरा ॥ ५७५ ॥ ततश्च-दष्टोष्ठा रक्तसर्वाङ्गा, भूमिताडनतत्पराः । क्रोधान्धबुद्धयः सर्वे, समकालं सभाक्षोभः ४ प्रभाषिताः ॥ ५७६ ॥ अरे रे दुष्ट ! केनेदं, दुरात्मस्ते निवेदितम् । यथा संसारिजीवो नः, स्वामी सम्बन्धिनो वयम् ॥ ५७७ ॥ पातालेऽपि प्रविष्टानां, नास्ति मोक्षः कथंचन । युष्माकमालजालेन, किमनेन ? नराधमाः! ।। ५७८ ॥ संसारिजीवो नः स्वामी, यूयं सम्बन्धिनः किल । अहो सम्बन्धघटना, अहो वाक्यमहो गुणाः ॥ ५७९ ।। तत्तूर्ण गच्छ गच्छेति, देवतास्मरणोद्यताः । यूयं भवत शान्त्यर्थमेते वो वयमागताः ।। ५८० ॥ एवं च-सहस्ततालमुत्तालाः, प्रविहस्य परस्परम् । तथाऽन्ये निष्टुरैर्वाक्यैः, कृत्वा दूतकदर्थनम् ।। ५८१ ॥ चलितास्तत्क्षणादेव, क्रोधान्धास्ते महीभुजः । संनद्धबद्धकवचा, महामोहपुरस्सराः ॥ ५८२ ॥ युग्मम् । सत्येनापि स चारित्रमोमागत्य, सर्व तच्चेष्टितं प्रभोः। चारित्रधर्मराजस्य, विस्तरेण निवेदितम् ॥ ५८३ ॥ अथाभ्यर्णगतां मत्वा, महामोहमहाचमूम् । चारित्र | हयोयुद्धं | धर्मराजीयं, संनद्धमखिलं बलम् ।। ५८४ ॥ ततः परिसरे रम्ये, लग्नमायोधनं तयोः । चित्तवृत्तिमहाटव्यां, सैन्ययोः कृतविस्मयम् ॥ ५८५ ॥ तच्च कीदृशं-विलसितभटकोटिसङ्घातहेतिप्रभाजालविस्तारसञ्चारनि शिताशेषतामिस्रमेकत्र चारित्रधर्मानुसञ्चारिराजेन्द्र- ॥५३८॥ Viवृन्दैरतोऽन्यत्र दुष्टाभिसन्ध्याद्यनेकप्रचण्डोप्रभूपेन्द्रशृङ्गाङ्गसच्छायकायप्रभोल्लासबद्धान्धकारप्रतानप्रनष्टाखिलज्ञानसद्योतसन्तानजातं, ततो | Jain Educat an inte For Private & Personal Use Only Now.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy