________________
उपमितौ
॥५३८॥
ग्रामपुराणां च, स स्वामी नात्र संशयः ॥ ५७० ॥ एवं च स्थिते-न्यूयं वयं च ये चान्ये, केचिदान्तरभूभुजः । ते कर्मपरिणामाद्याः, सर्वे तस्यैव किङ्कराः ॥ ५७१ ॥ ततश्चैकमिदं राज्यं, सर्वेषामेक एव च । स्वामी संसारिजीवोऽतः, को विरोधः परस्परम् ॥ ५७२ ॥ यतः-शक्ताः स्वस्वामिनो भक्ताः, संहताश्च भवन्ति भोः । भृत्या बन्धूपमा नैव, स्वपक्षक्षयकारकाः ॥ ५७३ ॥ तदस्तु सततानन्दमतः | प्रभृति सुन्दरम् । युष्माभिः सह राजेन्द्र !, प्रेम नः प्रीतिवर्धनम् ॥ ५७४ ॥ इदं सत्योदितं सत्यं, वाक्यमाकर्ण्य सा सभा । महा
महामोहः मोही महाक्षोभमथ प्राप्ता मदोद्धुरा ॥ ५७५ ॥ ततश्च-दष्टोष्ठा रक्तसर्वाङ्गा, भूमिताडनतत्पराः । क्रोधान्धबुद्धयः सर्वे, समकालं
सभाक्षोभः ४ प्रभाषिताः ॥ ५७६ ॥ अरे रे दुष्ट ! केनेदं, दुरात्मस्ते निवेदितम् । यथा संसारिजीवो नः, स्वामी सम्बन्धिनो वयम् ॥ ५७७ ॥
पातालेऽपि प्रविष्टानां, नास्ति मोक्षः कथंचन । युष्माकमालजालेन, किमनेन ? नराधमाः! ।। ५७८ ॥ संसारिजीवो नः स्वामी, यूयं सम्बन्धिनः किल । अहो सम्बन्धघटना, अहो वाक्यमहो गुणाः ॥ ५७९ ।। तत्तूर्ण गच्छ गच्छेति, देवतास्मरणोद्यताः । यूयं भवत शान्त्यर्थमेते वो वयमागताः ।। ५८० ॥ एवं च-सहस्ततालमुत्तालाः, प्रविहस्य परस्परम् । तथाऽन्ये निष्टुरैर्वाक्यैः, कृत्वा दूतकदर्थनम् ।। ५८१ ॥ चलितास्तत्क्षणादेव, क्रोधान्धास्ते महीभुजः । संनद्धबद्धकवचा, महामोहपुरस्सराः ॥ ५८२ ॥ युग्मम् । सत्येनापि स
चारित्रमोमागत्य, सर्व तच्चेष्टितं प्रभोः। चारित्रधर्मराजस्य, विस्तरेण निवेदितम् ॥ ५८३ ॥ अथाभ्यर्णगतां मत्वा, महामोहमहाचमूम् । चारित्र
| हयोयुद्धं | धर्मराजीयं, संनद्धमखिलं बलम् ।। ५८४ ॥ ततः परिसरे रम्ये, लग्नमायोधनं तयोः । चित्तवृत्तिमहाटव्यां, सैन्ययोः कृतविस्मयम्
॥ ५८५ ॥ तच्च कीदृशं-विलसितभटकोटिसङ्घातहेतिप्रभाजालविस्तारसञ्चारनि शिताशेषतामिस्रमेकत्र चारित्रधर्मानुसञ्चारिराजेन्द्र- ॥५३८॥ Viवृन्दैरतोऽन्यत्र दुष्टाभिसन्ध्याद्यनेकप्रचण्डोप्रभूपेन्द्रशृङ्गाङ्गसच्छायकायप्रभोल्लासबद्धान्धकारप्रतानप्रनष्टाखिलज्ञानसद्योतसन्तानजातं, ततो |
Jain Educat an inte
For Private & Personal Use Only
Now.jainelibrary.org