________________
दूतप्रेषणं
उपमितौ& नियतियदृच्छादीनां निजपरिजनानामनुकूलयित्वा संसारिजीवस्यैव महादेवीं भवितव्यतामपेक्ष्य सप्रसादोऽयमिति विज्ञप्तिकावसरं ततःप. ५-प्र. संसारिजीवस्य समस्तमस्मद्वृत्तान्तं सर्वेषामभिरुचिते सति विज्ञापयिष्यति, ततः प्रतिबन्धकाभावाल्लगिष्यति सा विज्ञप्तिका, भविष्यति ।
संसारिजीवोऽस्मासु सप्रसादः, ततश्च-निर्मूलान्नाशयिष्यामः, शत्रूनेतान्महत्तम! । तेन कालविलम्बोऽत्र, रुचितो मे प्रयोजने ॥५५६॥ ॥५३७॥
सम्यग्दर्शनेनोक्तं यद्येवं प्रेष्यतां तावद्दतस्तेषां दुरात्मनाम् । न लश्यन्ति मर्यादां, येन ते दूतभत्सिताः ॥ ५५७ ॥ सद्बोधेनोक्तं-न कार्य तत्र दूतेन, प्रहितेन महत्तम! । तिष्ठामस्तावदत्रैव, बकवन्निभृतेन्द्रियाः ॥ ५५८ ॥ सम्यग्दर्शनेनोक्तं भाव्यमतिभीतेन, भवता पुरुषोत्तम! । सुरुष्टा अपि ते पापाः, किं करिष्यन्ति मादृशाम् ? ॥ ५५९ ॥ अन्यच्च-यषि नो रोचते तात!, दूतस्ते दण्डपूर्वकः । ततः सन्धिविधानार्थ, सामपूर्वः प्रहीयताम् ॥ ५६० ॥ सद्बोधेनोक्तं—आर्य! मा मैवं वोचः, यतः-कोपाध्माते कृतं साम, कलहस्य विवर्धकम् । जाज्वलीति हि तोयेन, तप्तं सर्पिन संशयः ।। ५६१ ॥ अथवा-फलेन दृश्यतामेतत्पूर्यतां ते कुतूहलम् । येन संपद्यते तात!, प्रत्ययो मम जल्पिते ॥ ५६२ ॥ दूतः प्रहीयतां तेषां, यदि देवाय रोचते । ततो विज्ञाय तद्भावमुचितं हि करिष्यते ॥ ५६३ ॥ अथ चारित्रधर्मेण, तद्वाक्यमनुमोदितम् । ततस्तैः प्रहितो दूतः, सत्याख्यः शत्रुसंहतेः ॥ ५६४ ॥ अथ दूतानुमार्गेण, साऽपि मार्गानुसारिता । गता तात! मया सार्ध, महामोहबले तदा ॥ ५६५ ॥ प्रमत्ततानदीतीरे, चित्तविक्षेपमण्डपे । दृष्टश्च
संदेशार्पण विहितास्थानो, महामोहमहानृपः ॥ ५६६ ॥ अथ दूतः स सत्याख्यस्तत्रास्थानेऽरिपूरिते । प्रविष्टः प्रतिपत्त्या च, निविष्टः शुभविष्टरे ॥ ५६७ ॥ ततः पृष्टतनूदन्तो, वाक्यमेवमुदारधीः । स प्राह साहसाढ्योऽपि, कोपाग्नेः शान्तिकाम्यया ॥ ५६८ ॥ चित्तवृत्तिमहाटव्या, यः प्रभुः परमेश्वरः । लोके संसारिजीवोऽसौ, तावद्भो मूलनायकः ॥ ५६९ ॥ बहिरङ्गान्तरकाणां, संसारोदरचारिणाम् । राज्ञां
Jan Education
For Private Personal use only
Rw.jainelibrary.org