SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उपमिती प.५-प्र. | संसारित जीवायत्तौ जयपरा जयौ ताविवेकेन, स ह्यसाध्येऽपि वस्तुनि । लोके स जायते हास्यः, समूलश्च विनश्यति ॥ ५४० ॥ ततश्च-इदं मूलविनष्टं हि, सात! सर्व प्रयोजनम् । अतोऽद्य तावकोत्साहः, कुत्र नामोपयुज्यताम् ? ॥ ५४१ ॥ यतः भवचक्रमिदं सर्व, वयं ते च महाऽरयः । स कर्मपरिणामाख्यो, यश्च राजा महाबलः ।। ५४२ ॥ आयत्तं सर्वमेवेदं, तस्यैकस्य महात्मनः । तात! संसारिजीवस्य, यस्यायत्ता महाटवी ॥ ५४३ ॥ युग्मम् । स चाद्यापि न जानीते, नामापि खलु मादृशाम् । महामोहादिसैन्यं तु, मन्यते गाढवल्लभम् ॥ ५४४ ॥ इतश्च-यत्र संसारिजीवस्य, पक्षपातो बलेऽधिकः । तस्यैव विजयो नूनं, स हि सर्वस्य नायकः ॥ ५४५ ॥ ततो यावन्न जानीते, सोऽस्माकं सैन्यमुत्तमम् । यावच्च पक्षपातोऽस्य, नाद्याप्यस्मासु जायते ॥ ५४६ ॥ तावन्न युक्तः संरम्भो, न यानं न च विग्रहः । युक्तं साम तदा स्था नमुपेक्षा गजमीलिका ॥५४७॥ युग्मम् । संकुचन्ति हि विद्वांसः, कार्य संचिन्त्य किंचन । केसरी गजनिर्घाते, यथोत्पातविधित्सया R॥ ५४८॥ न पौरुषं गलत्यत्र, नश्यतोऽपि विजानतः । सिंहो झुपसरत्येव, बृहदास्फोटदित्सया ॥ ५४९॥ सम्यग्दर्शनेनोक्तं-आर्य ! संसारिजीवोऽसौ, न जाने ज्ञास्यते न वा । अस्मानेतेऽरयो नित्यमधुनैवं विषाधकाः॥ ५५०॥ तदद्य संयमस्तावदित्थमेभिः कदर्थितः । & श्वः सर्वानपि हन्तारस्ततः स्थातुं न युज्यते ॥ ५५१ ॥ सद्बोधेनोक्तं—आर्य! मोत्तालतां कार्षीः, कालसाध्ये प्रयोजने । ध्रुवं संसारिजी|वोऽसौ, ज्ञास्यते नः कदाचन ॥५५२॥ यतः–स कर्मपरिणामाख्यो, नरेन्द्रोऽत्र बलद्वये । समानपक्षपातेन, सदा प्रायेण वर्तते।।५५३।। इतश्व-तस्य संसारिजीवोऽपि, निःशेषं कुरुते वचः । अतोऽस्मानेष तस्योच्चैः, कदाचिज्ज्ञापयिष्यति ॥ ५५४ ॥ ततश्च ज्ञाताः संसा रिजीवेन, सप्रसादेन पूजिताः । वयमार्य ! भविष्यामः, शत्रुनिर्दलनक्षमाः॥ ५५५ ॥ केवलमसावपि कर्मपरिणामः कचिदवसरे पर्यामालोच्य महत्तमभगिन्या सह लोकस्थित्या पृष्ट्वा चावसरं निजभार्या कालपरिणतिं कथयित्वाऽऽत्मीयमहत्तमाय स्वभावाय कृत्वा विदितं | आश्वासन Jain Educatio n al For Private & Personel Use Only W w ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy