SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ US उपमितौ प.५-प्र. ॥५३५॥ नीतिसुचा मादृशम् ॥५२२॥ ततः सम्यग्दर्शनं प्रत्याह-अहो तेजःप्रधानत्वमहो वाचि प्रगल्भता । अहो ते स्वामिभक्तत्वं, चारु चारु महत्तम! ५२३ ॥ सत्यं मानवतां धीर!, दुःसहोऽरिपराभवः । सत्यं पराभिभूतस्य, लोके निःसारता परा ॥ ५२४ ॥ सत्यं । दुष्टाः शठा वध्या, महामोहादिशत्रवः । सत्यं तद्घातुकाः सर्वे, देवपादानुजीविनः ॥ ५२५ ॥ किं च-तिष्ठन्तु पुरुषास्तावद्देवशासनवर्तिनः। नार्योऽपि देवसैन्यस्य, तेषां निर्घातने क्षमाः।।५२६।। किंतु-प्रस्तावरहितं कार्य, नारभेत विचक्षणः।नीतिपौरुषयोर्यस्मात्प्रस्तावः कार्यसाधकः ॥ ५२७ ॥ अथवा देवपादानां, भवतश्च पुरो मया । नीतिशास्त्रं यदुच्येत, हन्त तत्पिष्टपेषणम् ॥ ५२८ ॥ तथाहि षड् गुणाः पञ्च चाङ्गानि, शक्तित्रितयमुत्तमम् । सोदयाः सिद्धयस्तिस्रस्तथा नीतिचतुष्टयम् ॥ ५२९ ॥ चतस्रो राजविद्याश्च, & यच्चान्यदपि तादृशम् । प्रतीतं युवयोः सर्व, तद्धि किं तस्य वर्ण्यते ? ॥५३०।। यतः-स्थानं यानं तथा सन्धिर्विग्रहश्च परैः सह । संश्रयो द्वैधभावश्च, पड़ गुणाः परिकीर्तिताः ।। ५३१ ।। तथा-उपायः कर्मसंरम्भे, विभागो देशकालयोः। पुरुषद्रव्यस-| म्पच्च, प्रतीकारस्तथापदाम् ।। ५३२ ॥ पश्चमी कार्यसिद्धिश्च, पोलोच्यमिदं किल । अङ्गानां पञ्चकं राज्ञा, मन्त्रमार्गे है विजानता ॥५३३॥ तथा उत्साहशक्तिः प्रथमा, प्रभुशक्तिद्धितीयिका । तृतीया मन्त्रशक्तिश्च, शक्तित्रयमिदं परम् ॥५३४॥ शक्तित्रितयसंपाद्यालय एवोदयास्तथा । हिरण्यमित्रभूमीनां, लाभाः सिद्धित्रयं विदुः ॥ ५३५ ॥ तथा—सामभेदोपदानानि, दण्डश्चेति चतुष्टयम् । नीतीनां सर्वकार्येषु, पर्यालोच्य विजानता ॥ ५३६ ॥ तथा-आन्वीक्षिकी त्रयी वार्ता, दण्डनीतिस्तथा परा । विद्याश्चतस्रो भूपानां, किलैताः सन्ति गोचरे ॥ ५३७ ।। तदेतद्देवपादानां, भवतश्च विशेषतः । प्रतीतमेव निःशेष, वर्ण्यतां किं ? महत्तम! ॥५३८॥ केवलं ज्ञातशास्त्रोऽपि, स्वावस्था यो न बुध्यते। तस्याकिश्चित्करं ज्ञानमन्धस्येव सुदर्पणः॥५३९॥ प्रवर्ते ॥५३५॥ Jain Education a l For Private & Personel Use Only R ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy