SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ . उपमितौ प. ५-प्र. . ॥५३२॥ संयमावनतिः ततो मे चारु वेधसा । इदं संपादितं हन्त, मीलितोऽहं यदम्बया ॥ ४६८ ॥ अधुना दर्शयत्वम्बा, प्रसादेन विशेषतः । ममेदं बन सानिःशेष, भवचक्रं महापुरम् ॥४६९॥ ततः सा बाढमित्युक्त्वा, तात! मार्गानुसारिता। समस्तं भवचक्र मे, सवृत्तान्तमदर्शयत् ॥४७०॥ अथैकत्र मया दृष्टं, पुरं तत्र महागिरिः । तच्छिखरे रमणीयं च, निविष्टमपरं पुरम् ॥ ४७१ ॥ ततो मयोक्तं-निवेदयाम्ब! किनाम, पुरमेतदवान्तरम् । किंनामार्य गिरिः किं च, शिखरे दृश्यते पुरम् ॥ ४७२ ॥ मार्गानुसारिता प्राह, वत्स! नो लक्षितं त्वया । सुप्रसिद्धमिदं लोके, पुरं सात्त्विकमानसम् ॥ ४७३ ॥ एषोऽपि सुप्रसिद्धोऽत्र, विवेकवरपर्वतः । प्ररूढमप्रमत्तत्वमिदं च शिखरं जने ॥ ४७४ ॥ इदं तु भुवनख्यातं, वत्स! जैनं महापुरम् । तव विज्ञातसारस्य, कथं प्रष्टव्यतां गतम् ॥ ४७५ ॥ यावत्सा कथयत्येवं, मम मार्गानुसारिता । तावजातोऽपरस्तत्र, वृत्तान्तस्तं निबोध मे ॥ ४७६ ॥ गाढं प्रहारनिर्भिन्नो, नीयमानः सुविह्वलः । पुरुषैर्वेष्ठितो दृष्टो, मयैको राजदारकः॥ ४७७ ॥ ततो मयोक्तं-क एष दारको मातः!, किं वा गाढप्रहारितः । कुन वा नीयते लग्नाः, के वाऽमी परिचारकाः? ॥ ४७८ ॥ मार्गानुसारिता प्राह, विद्यतेऽत्र महागिरौ । राजा चारित्रधर्माख्यो, यतिधर्मस्तु तत्सुतः ॥ ४७९ ॥ तस्यायं संयमो नाम, पुरुषः ख्यातपौरुषः । एकाकी च क्वचिदृष्टो, महामोहादिशत्रुभिः ॥ ४८० ॥ ततो बहुत्वाच्छत्रूणां, प्रहारैर्जर्जरीकृतः । अयं निर्वाहितो वत्स!, रणभूमेः पदातिभिः ॥ ४८१ ॥ अमी पदातयो वत्स!, नेष्यन्तीमं स्वमन्दिरे । अस्य चात्र पुरे जैने, सर्वे तिष्ठन्ति बान्धवाः ।। ४८२ ॥ मयोक्तं-अम्बिके!–दृष्ट्वेमं यत्करिष्यन्ति, शत्रुभिः परिपीडितम् । चारित्रधर्मराजाद्या, बृहन्मे तत्र कौतुकम् ॥ ४८३ ॥ अतो महाप्रसादेन, नीत्वा मां गिरिमस्तके । अधुना दर्शयत्वम्बा, स्वामिनोऽस्य विचेष्टितम् ॥ ४८४ ॥ मार्गानुसारितयोक्तं वत्सैवं क्रियते, ततस्तदनुमार्गेण, विवेकगिरिमस्तके । आरूढा सा मया सार्ध, तत्र मार्गानुसारिता ॥४८५ ॥ अथ 445453 Join Education For Private & Personel Use Only क w w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy