________________
-
८
मार्गानुसारितासंगमः
॥ ४५३ ॥ जातितके मुहुः ॥ ४५२॥स, देशकालिकयोग
उपमितौ कुतस्त्योऽसि ?, त्वं मे हृदयनन्दन! ॥ ४५० ॥ मयोक्तमम्ब! जातोऽहं, धिषणाया धरातले । पुत्रोऽहं बुधराजस्य, देशकालिकयोगतः प.५-प्र. IM॥ ४५१ ॥ एतच्चाकर्ण्य सा नारी, विलसन्नयनोदका । स्नेहेन मां परिष्वज्य, चुम्बित्वा मस्तके मुहुः ॥ ४५२ ॥ ततः प्राह महाभाग !,
चारु चारु कृतं त्वया । त्वमादावत्र मे वत्स!, विदितश्चित्तलोचनैः ॥ ४५३ ॥ जातिस्मरे जनस्यैते, लोचने हृदयं च भोः। ॥५३१॥
यतोऽमूनि विजानन्ति, दृष्टमात्रं प्रियाप्रियम् ॥ ४५४ ॥ वत्स! त्वं नैव जानीषे, मां प्रायेण विशेषतः । लधिष्ठोऽसि मया वत्स!, विमुक्तो बालकस्तदा ।। ४५५ ।। अहं हि मातुस्ते वत्स!, धिषणाया वयस्यिका । वल्लभा बुधराजस्य, नाम्ना मार्गानुसारिता॥४५६॥ शरीरं जीवितं प्राणाः, सर्वस्वं मम साऽनघा । तव माता महाभाग!, पिता ते जीविताधिकः ॥ ४५७ ॥ तयोरेव समादेशादहं लोकविलोकनम् । कर्तु विनिर्गता वत्स!, जातमात्रे पुरा त्वयि ॥ ४५८ ॥ अतो मे भागिनेयस्त्वं, पुत्रस्त्वं जीवितं तथा । सर्वस्वं परमात्मा च, सर्व भवसि सुन्दर! ॥ ४५९ ॥ सुन्दरं च कृतं वत्स!, देशदर्शनकाम्यया । यदेवं निर्गतो गेहाजिगीषुस्त्वं न संशयः ॥ ४६० ॥ तथाहि-यो न निर्गत्य निःशेषां, विलोकयति मेदिनीम् । अनेकाद्भुतवृत्तान्तां, स नरः कूपदर्दुरः॥ ४६१ ॥ यतः-क विलासाः क्व पाण्डित्यं, व बुद्धिः क विदग्धता। क देशभाषाविज्ञानं, क्व चैषाऽऽचारचारुता? ॥ ४६२ ॥ यावर्तशताकीर्णा, नानावृत्तान्तसङ्कला। नानेकशः परिभ्रान्ता, पुरुषेण वसुन्धरा ॥४६३॥ युग्मम् । तथेदं सुन्दरतरं, वत्सेन विहितं हितम्। |भवचक्रे यदायातस्त्वमत्र नगरे परे ।। ४६४ ॥ इदं हि नगरं वत्स!, भूरिघृत्तान्तमन्दिरम् । अनेकाद्भुतभूयिष्ठं, विदग्धजनसङ्कुलम् ॥ ४६५ ॥ विलोकयति यः सम्यगेतद्धि नगरं जनः । तेन सर्वमिदं दृष्ट, भुवनं सचराचरम् ॥ ४६६ ॥ अथवा किमनेन बहुना?धन्याऽस्मि कृतकृत्याऽस्मि, यस्या मे दृष्टिगोचरम् । खत एवागतोऽसि त्वं, वत्स! सद्रनपुञ्जकः ॥ ४६७ ॥ मयोक्तमम्ब! यद्येवं,
5MSACCUSAIGALADESH
CLICMACHCARROCCANA
॥५३१॥
Jain Education in
For Private & Personel Use Only
Mow.jainelibrary.org