SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५-प्र. ॥५३०॥1G विचारेण घ्राणत्तोदितिः लभते सुखमुत्तमम् ॥ ४३१ ॥ मन्दस्तु तां पुरस्कृत्य, शठचित्तां भुजङ्गताम् । घ्राणलालनलाम्पट्याल्लभते दुःखसागरम् ॥ ४३२॥ कथं ?-सुगन्धिद्रव्यसम्भारकरणोद्यतमानसः । तन्तम्यते वृथा मूढस्तन्निमित्तं दिवानिशम् ॥ ४३३ ॥ दुर्गन्धपरिहारं च, कुर्वाणः खिद्यते मुधा । शमसौख्यं न जानीते, हस्यते च विवेकिभिः ॥ ४३४ ॥ तथापि मोहदोषेण, सुखसन्दर्भनिर्भरम् । आत्मानं मन्यते मन्दः, प्रसक्तो घ्राणलालने । ४३५ ॥ इतश्च यौवनारूढो, विचारो राजदारकः । कथंचिल्लीलया गेहाद्देशकालिकयोगतः ॥ ४३६ ।। बहिरगान्तरङ्गेषु, स देशेषु पुनः पुनः । पर्यट्य क्वचिदायातः, स्वगेहे राजदारकः ।। ४३७ ॥ अथ तत्र समायाते, प्रहृष्टौ धिषणाबुधौ । संजातो बृहदानन्दः, संतुष्टं राजमन्दिरम् ॥ ४३८ ॥ ततश्च-वृत्ते महाविमर्दैन, समागममहोत्सवे । सा ज्ञाता मैत्रिका तेन, घ्राणेन बुधमन्दयोः ।। ४३९ ॥ ततो रहसि संस्थाप्य, तमात्मपितरं बुधम् । स विचारः प्रणम्येत्थं, प्रोवाच कृतकुड्मलः ॥ ४४० ॥ तात! यो युवयोर्जातो, घ्राणनामा वयस्यकः । सोऽयं न सुन्दरो दुष्टस्तत्राकर्णय कारणम् ॥ ४४१ ॥ अस्ति तावदहं तात!, देशदर्शनकाम्यया । अपृष्ट्वा तातमम्बां च, निर्गतो भवनात्तदा ॥ ४४२ ॥ ततोऽनेकपुरपामखेटाकरमनोहरा । विलोकिता मया तात!, भ्रान्त्वा भ्रान्त्वा वसुन्धरा ॥ ४४३ ।। अन्यदा भवचक्रेऽहं, संप्राप्तो नगरे पुरे । राजमार्गे मया दृष्टा, तत्रैका वरसुन्दरी ।। ४४४ ।। सा मां वीक्ष्य विशालाक्षी, परितोषमुपागता । रसान्तरं भजन्तीव, कीदृशी प्रविलोकिता? ॥४४५॥-सिक्तेवामृतसेकेन, कल्पपादपमञ्जरी। हृष्टा नीरदनादेन, नृत्यन्तीव मयूरिका ।।४४६॥ प्रगे सहचरस्येव, मिलिता चक्रवाकिका । अम्भोदबन्धनेनेव, विमुक्ता चन्द्रलेखिका।।४४७॥ राज्ये कृताभिषेकेव, क्षिप्तेव सुखसागरे । मया सा लक्षिता साध्वी, प्रीतिविस्फारितेक्षणा ॥ ४४८॥ त्रिभिर्विशेषकम् । ततस्तां वीक्ष्य संपन्नो, ममापि प्रमदस्तदा। चित्तं ह्याद्रीभवेदृष्टे, सजने स्नेहनिर्भरे ॥४४९॥ ततः कृतप्रणामोऽहं, प्रोक्तो दत्ताशिषा तया। ब्रूहि वत्स! मार्गानुसारितासंगमः *56456 Jain Education Intern For Private & Personel Use Only dainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy