________________
उपमितौ
घ्राणला
लनं
॥५२९॥
तोऽप्येष, तथा संपादितस्त्वया । अनेन स्नेहसारेण, सोऽपि प्रत्यक्षतां गतः ॥ ४१३ ।। तत्रभवती तावनिवेदयतु मेऽधुना । यदेष कुरुते भद्रे, स्नेहक्रीतो जनस्तव ॥ ४१४ ॥ तयोक्तमियदेवात्र, कर्तव्यं नाथ! साम्प्रतम् । अयं चिरन्तनस्थित्या, लालनीयो वयस्यकः ॥ ४१५॥ मन्दः प्राह यथा कार्य, लालनं कमलानने! । मयाऽस्य वरमित्रस्य, तत्सर्व मे निवेदय ॥ ४१६ ॥ भुजङ्गताऽऽह सद्गन्धलुब्धबुद्धिरयं सदा । अतः सुगन्धिभिर्द्रव्यैः, क्रियतामस्य लालनम् ॥ ४१७ ॥ चन्दनागरुकर्पूरकुरङ्गमदमिश्रितम् । कुङ्कुमक्षोदगन्धाढ्यं, रोचतेऽस्मै विलेपनम् ॥ ४१८ ॥ एलालवङ्गकर्पूरसज्जातिफलसुन्दरम् । तथा सुगन्धि ताम्बूलं, स्वदतेऽस्मै मनोरमम् ॥ ४१९ ॥ सधूपा विविधा गन्धा, वर्तिकाः पुष्पजातयः । यत्किञ्चित्सौरभोपेतं, तदेवास्यातिवल्लभम् ॥ ४२० ॥ दुर्गन्धिवस्तुनामापि, नैवास्य प्रतिभासते।। तस्मात्सुदूरतस्त्याज्यं, तदस्य सुखमिच्छता ॥ ४२१ ॥ तदेवं क्रियतां तावल्लालनं मित्रपालनम् । एतद्धि भवतोर्दुःखवारणं सुखकारणम्। ॥ ४२२ ।। यदेवं लालितेनेह, घ्राणेन भवतोः सुखम् । संभविष्यति तद्देव!, को हि वर्णयितुं क्षमः ॥ ४२३॥ मन्देनोक्तं विशालाक्षि!,8 सुन्दरं गदितं त्वया । सर्व विधीयते सुभ्र!, तिष्ठ भद्रे ! निराकुला ॥ ४२४ ॥ एवं च वदतो मन्दस्य-पादयोः पतिता भूयो, हर्ष-1 | विस्फारितेक्षणा । महाप्रसाद इत्येवं, वदन्ती सा भुजङ्गता ॥ ४२५ ।। बुधस्तु मौनमालम्ब्य, शून्यारण्ये मुनिर्यथा। अवस्थितो यतस्तेन. शठोऽयं लक्षितस्तथा ॥ ४२६ ।। ततो न किश्चिदुक्तोऽसौ, काकली विहिता परम् । बुधेन तु तदालोक्य, चित्चेनेदं विवेचितम ॥४२७॥
-अये!-क्षेत्रं मदीयं शैलश्च, मामिकेयं महागुहा । अतोऽस्यां यः स्थितो घाणः, स मे पाल्यो न संशयः॥४२८ ॥ केवलं यदियं वक्ति, दारिका शाठ्यसारिका । तन्मया नास्य कर्तव्यं, लालनं सुखकाम्यया ॥ ४२९ ॥ किं तु यावत् क्षेत्रं न मुञ्चामि, तावद-IX स्यापि पालनम् । कार्य विशुद्धमार्गेण, लोकयात्रानुरोधतः ।। ४३० ॥ एवं निश्चित्य चित्तेन, बुधस्तं पालयन्नपि । घ्राणं न युज्यते दोषै-*
बुधस्य
बोधः
॥५२९॥
स.भ.४५
Jain Education Intematon
For Private & Personal Use Only
"www.jainelibrary.org