SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ उपमितौ घ्राणला लनं ॥५२९॥ तोऽप्येष, तथा संपादितस्त्वया । अनेन स्नेहसारेण, सोऽपि प्रत्यक्षतां गतः ॥ ४१३ ।। तत्रभवती तावनिवेदयतु मेऽधुना । यदेष कुरुते भद्रे, स्नेहक्रीतो जनस्तव ॥ ४१४ ॥ तयोक्तमियदेवात्र, कर्तव्यं नाथ! साम्प्रतम् । अयं चिरन्तनस्थित्या, लालनीयो वयस्यकः ॥ ४१५॥ मन्दः प्राह यथा कार्य, लालनं कमलानने! । मयाऽस्य वरमित्रस्य, तत्सर्व मे निवेदय ॥ ४१६ ॥ भुजङ्गताऽऽह सद्गन्धलुब्धबुद्धिरयं सदा । अतः सुगन्धिभिर्द्रव्यैः, क्रियतामस्य लालनम् ॥ ४१७ ॥ चन्दनागरुकर्पूरकुरङ्गमदमिश्रितम् । कुङ्कुमक्षोदगन्धाढ्यं, रोचतेऽस्मै विलेपनम् ॥ ४१८ ॥ एलालवङ्गकर्पूरसज्जातिफलसुन्दरम् । तथा सुगन्धि ताम्बूलं, स्वदतेऽस्मै मनोरमम् ॥ ४१९ ॥ सधूपा विविधा गन्धा, वर्तिकाः पुष्पजातयः । यत्किञ्चित्सौरभोपेतं, तदेवास्यातिवल्लभम् ॥ ४२० ॥ दुर्गन्धिवस्तुनामापि, नैवास्य प्रतिभासते।। तस्मात्सुदूरतस्त्याज्यं, तदस्य सुखमिच्छता ॥ ४२१ ॥ तदेवं क्रियतां तावल्लालनं मित्रपालनम् । एतद्धि भवतोर्दुःखवारणं सुखकारणम्। ॥ ४२२ ।। यदेवं लालितेनेह, घ्राणेन भवतोः सुखम् । संभविष्यति तद्देव!, को हि वर्णयितुं क्षमः ॥ ४२३॥ मन्देनोक्तं विशालाक्षि!,8 सुन्दरं गदितं त्वया । सर्व विधीयते सुभ्र!, तिष्ठ भद्रे ! निराकुला ॥ ४२४ ॥ एवं च वदतो मन्दस्य-पादयोः पतिता भूयो, हर्ष-1 | विस्फारितेक्षणा । महाप्रसाद इत्येवं, वदन्ती सा भुजङ्गता ॥ ४२५ ।। बुधस्तु मौनमालम्ब्य, शून्यारण्ये मुनिर्यथा। अवस्थितो यतस्तेन. शठोऽयं लक्षितस्तथा ॥ ४२६ ।। ततो न किश्चिदुक्तोऽसौ, काकली विहिता परम् । बुधेन तु तदालोक्य, चित्चेनेदं विवेचितम ॥४२७॥ -अये!-क्षेत्रं मदीयं शैलश्च, मामिकेयं महागुहा । अतोऽस्यां यः स्थितो घाणः, स मे पाल्यो न संशयः॥४२८ ॥ केवलं यदियं वक्ति, दारिका शाठ्यसारिका । तन्मया नास्य कर्तव्यं, लालनं सुखकाम्यया ॥ ४२९ ॥ किं तु यावत् क्षेत्रं न मुञ्चामि, तावद-IX स्यापि पालनम् । कार्य विशुद्धमार्गेण, लोकयात्रानुरोधतः ।। ४३० ॥ एवं निश्चित्य चित्तेन, बुधस्तं पालयन्नपि । घ्राणं न युज्यते दोषै-* बुधस्य बोधः ॥५२९॥ स.भ.४५ Jain Education Intematon For Private & Personal Use Only "www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy