SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उपमितौ नासिकाघ्राणसंगमः ॥५२८॥ भूरिलोकाकुलं तत्र, विद्यते पाटकत्रयम् ॥ ३९४ ॥ द्वितीये पाटके सन्ति, बहवः कुलपुत्रकाः । तत्र त्रिकरणे नाम, तन्मध्ये संस्थिती युवाम् ॥ ३९५ ॥ स कर्मपरिणामाख्यो, नरेन्द्रस्तत्र तिष्ठतोः । प्रसन्नो युवयोस्तेन, दत्तेयं वां महागुहा ॥ ३९६ ॥ अयं च घ्राणसंज्ञोऽत्र, वयस्यो हितकारकः । युवयोर्विहितस्तेन, गुहायाः परिपालकः ॥ ३९७ ॥ सुखसागरहेतुश्च, युवयोरेष वत्सलः । वयस्योऽचिन्त्यमाहात्म्यस्ततःप्रभृति वर्तते ।। ३९८ ॥ किं तु-राजादेशवशादेष, न गुहाया विनिर्गतः । तत्रैव वर्तमानोऽयं, युवाभ्यां लालितः पुरा ॥ ३९९ ॥ तथाविधेषु स्थानेषु, यत्र यत्र गतौ युवाम् । लालितस्तत्र तत्रायं, गन्धैर्नानाविधैः पुरा ॥ ४०॥ पुरीं मनुजगत्याख्यामन्यदा कचिदागतौ । तस्यां पुनर्विशेषेण, युवाभ्यामेष लालितः ।। ४०१ ।। अहं च विहिता स्नेहादस्यैव परिचारिका । युवाभ्यामेव मित्रस्य, मन्दभाग्या भुजङ्गता ॥ ४०२ ॥ तदेवं चिरमूढेषा, घ्राणेन सह मैत्रिका । युवयोरनुचरी लोके, प्रसिद्धाऽहं भुजङ्गता ॥४०३॥ तथापि देवौ यद्येवं, कुर्वाते गजमीलिकाम् । अतः परतरं नाथ!, किं शोकभरकारणम् ? ॥ ४०४ ॥ तस्माञ्चिरन्तनस्थित्या, दृश्यतां | किङ्करो जनः । युवाभ्यां नाथ! निर्मिथ्य, पाल्यतामेष बान्धवः ॥ ४०५ ।। एवं वदन्ती साऽलीकस्नेहदर्शितसम्भ्रमा । पादेषु पतिता गाढं, बालिका बुधमन्दयोः ॥४०६॥ बुधेन चिन्तितं हन्त, दारिका नैव सुन्दरा । इयं हि धूर्ततासारा, कारणैः प्रविभाव्यते।।४०७n | यतः-कपोलसूचितं हास्य, सलजं मृदुभाषितम् । भवतीह कुलस्त्रीणां, निर्विकारं निरीक्षितम् ॥ ४०८ ॥ एषा तु बृह-17 दाटोपा, विलासोल्लासिलोचना । वागाडम्बरसारा च, ततो दुष्टा न संशयः॥ ४०९ ॥ ततोऽवधार्य चित्तेन, बुधेनेत्थं महात्मना । कृताऽवधीरणा तस्याः, किश्चिनो दत्तमुत्तरम् ॥ ४१० ॥ मन्दस्तु पादपतितां, समुत्थाप्य भुजङ्गताम् । संजातनिर्भरस्नेहस्ततश्चेदमवोचत ॥ ४११ ॥-विषादं मुञ्च चार्वङ्गि!, धीरा भव वरानने! । एवं हि गदितुं बाले !, युक्तं ते चारुलोचने! ॥ ४१२ ।। वृत्तान्तो विस्मृ-18 Jain Education Inter For Private & Personel Use Only vw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy