SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ५-प्र. ॥५२७॥ A★ काख्या महागुहा ॥ ३७५ ॥ अथ तां तादृशीं वीक्ष्य, रमणीयां महागुहाम् । तन्निरूपणलाम्पट्यं, संजातं बुधमन्दयोः ॥ ३७६ ॥ नासिकाअथाग्रे संस्थितौ तस्यास्तन्निरीक्षणलालसौ । यावद्दृष्टं सुगम्भीरं, तत्रापवरकद्वयम् ॥ ३७७॥ तथा युक्तं तदन्धकारेण, लोचनप्रसरातिगम् । घ्राणसंअदृश्यमानपर्यन्तं, द्वाराभ्यामुपलक्षितम् ।। ३७८ ॥ ततो मन्दो बुधं प्राह, पश्यापवरकद्वयम् । अनेनैव विभक्तेयं, नासिकाख्या महा- गमः गुहा ॥ ३७९ ॥ तदाकर्ण्य बुधेनोक्तं, भ्रातः! सम्यग्विनिश्चितम् । एषा शिलाऽनयोर्मध्ये, विभागार्थ विनिर्मिता ॥ ३८० ।। एवं च ४ जल्पतोर्वत्स, तदानीं बुधमन्दयोः । गुहातो निर्गता काचिद्दारिका चटुलाकृतिः ।। ३८१ ॥ प्रणम्य पादयोस्तूर्ण, तयोः सा राजपुत्रयोः । पुरतो दर्शितप्रीतिस्ततश्चेत्थमभाषत ॥ ३८२ ॥ स्वागतं भवतोरत्र, विहितो मदनुग्रहः । प्रतिजागरणं मेऽद्य, युवाभ्यां यदनुष्ठितम् । ॥ ३८३ ॥ ततो मन्दो लसत्तोषो, दृष्ट्वा वचनपाटवम् । तां दारिकां मृदूल्लापैः, सस्नेहं समभाषत ॥ ३८४ ॥ कथम्? -निवेदयावयोर्बाले !, काऽसि त्वं वरलोचने! । किमर्थ वा वसस्यत्र, गुहाकोटरचारिणी ? ॥ ३८५ ॥ एतच्च वचनं श्रुत्वा, सा शोकभरपीडिता। मूर्च्छया पतिता बाला, भूतले नष्टचेतना ।। ३८६ ॥ ततो वायुप्रदानाद्यैर्मन्देनाश्वासिता पुनः । स्थूलमुक्ताफलानीव, साऽश्रुबिन्दूनमुञ्चत ॥ ३८७ ।। भद्रे ! किमेतदित्येवं, पृच्छतश्च पुनः पुनः । मन्दस्य साऽब्रवीदेवं, स्नेहगद्गदया गिरा ।। ३८८ ॥ नाथ ! मे मन्दभाग्यायाः, किं स्तोकं शोककारणम् । युवयोर्विस्मृताऽस्मीति, याऽहं स्वस्वामिनोरपि ॥ ३८९ ।। अहं भुजङ्गता नाम, भवतोः परिचारिका । यु-15 वाभ्यामेव देवाभ्यां, गुहायां विनियोजिता ॥ ३९० ॥ अस्यां हि भवतोरस्ति, घ्राणनामा वयस्यकः । तिष्ठामि युष्मदादेशात्तस्याहं परि-ल |चारिका ॥ ३९१ ॥ चिरकालप्ररूढं हि, युवयोस्तेन संगतम् । यथा चेदं तथा नाथ!, समाकर्णय साम्प्रतम् ।। ३९२ ।। पुरेऽसंव्यव-IM॥५२७॥ हाराख्ये, पुराऽभूद्भवतोः स्थितिः । ततः प्रचलितौ कर्मपरिणामस्य शासनात् ॥ ३९३ ॥ गतावेकाक्षसंस्थाने, विकलाक्षे पुनस्ततः । Jain Education inte For Private & Personal use only Diww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy