SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ SAUSIS बुधसूरिचरितम् उपमिती तुभ्यं, समाकर्णय साम्प्रतम् ॥ ३५६ ॥-अस्ति लोके सुविख्यातं, विस्तीर्णमतिसुन्दरम् । अनेकाद्भुतवृत्तान्तं, पुरं नाम धरातलम् | प.५-प्र. ॥ ३५७ ।। तत्र प्रसिद्धमाहात्म्यो, जगदाहादकारकः । राजा शुभविपाकोऽस्ति, प्रतापाक्रान्तभूतलः ।। ३५८ ॥ तस्यातिवल्लभा साध्वी, 18 समस्ताङ्गमनोहरा । विद्यते विदिता लोके, सुन्दरी निजसाधुता ॥ ३५९ ॥ अन्यदा कालपर्यायादासाद्य निजसाधुताम् । समुत्पन्नो बुधो 8 ॥५२६॥ नाम, तत्सुतो लोकविश्रुतः ॥ ३६० ॥ आकरो गुणरत्नानां, कलाकौशलमन्दिरम् । स वर्धमानः संजातो, रूपेण मकरध्वजः ॥ ३६१॥ भ्राता शुभविपाकस्य, जगत्तापकरः परः । तथाऽशुभविपाकोऽस्ति, भीषणो जनमेजयः ॥ ३६२ ॥ तस्य विख्यातमाहात्म्या, लोकसन्तापकारिणी । देवी परिणतिर्नाम, विद्यते भीमविग्रहा ॥ ३६३ ।। अथ ताभ्यां समुत्पन्नो, दारुणाकारधारकः । विषाङ्कुरोपमः क्रूरो, मन्दो नाम सुताधमः ।। ३६४ ॥ आवासो दोषकोटीनां, गुणगन्धविवर्जितः । संपन्नो वर्धमानोऽसौ, तथापि मदविह्वलः ॥ ३६५ ॥ पितृव्यपुत्रभावेन, तयोश्च बुधमन्दयोः । यदृच्छया वा संपन्ना, भ्रात्रोमैंत्री मनोहरा ।। ३६६ ॥ सहितावेव तौ नित्यं, नगरे काननेषु च ।। तो विचरतः स्वेच्छाक्रीडारसपरायणौ ॥ ३६७ ॥ अथास्ति धिषणा नाम, पुरे विमलमानसे । शुभाभिप्रायराजस्य, दुहिता चारुदर्शना ॥ ३६८ ॥ सा तेन यौवनस्थेन, बुधेन वरलोचना । गृहे स्वयंवरायाता, परिणीता कृतोत्सवा ॥ ३६९॥ तस्याश्च कालपर्यायात् , निःशेषगुणमन्दिरम् । मनोरथशतैर्जातो, विचारो नाम पुत्रकः ॥ ३७० ॥ अथान्यदा निजे क्षेत्रे, क्रीडतोर्बुधमन्दयोः । यस्तदानीं समापन्नो, वृत्तान्तस्तं निबोधत ॥३७१॥ तस्य क्षेत्रस्य पर्यन्ते, दृष्टस्ताभ्यां मनोरमः । ललाटपट्टसन्नामा, विशालो वरपर्वतः ॥३७२॥ तस्योपरिष्टादुत्तुङ्गे, शिखरे सुमनोहरा । निलीनालिकुलच्छाया, कबर्याख्या वनावली ॥ ३७३ ।। ललाटपट्टनामानं, पर्वतं तं निरीक्षितुम् । अथ तौ लीलया तत्र, प्रदेशे समुपागतौ ॥ ३७४ ॥ यावद्दृष्टा सुदीर्घाभिः, शिलाभिः परिनिर्मिता । तस्याधस्ताद्गता दूर, नासि ॥५२६॥ Jain Education Inten For Private & Personel Use Only Indainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy