SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ SAUSIS बुधसूरिचरितम् उपमिती तुभ्यं, समाकर्णय साम्प्रतम् ॥ ३५६ ॥-अस्ति लोके सुविख्यातं, विस्तीर्णमतिसुन्दरम् । अनेकाद्भुतवृत्तान्तं, पुरं नाम धरातलम् | प.५-प्र. ॥ ३५७ ।। तत्र प्रसिद्धमाहात्म्यो, जगदाहादकारकः । राजा शुभविपाकोऽस्ति, प्रतापाक्रान्तभूतलः ।। ३५८ ॥ तस्यातिवल्लभा साध्वी, 18 समस्ताङ्गमनोहरा । विद्यते विदिता लोके, सुन्दरी निजसाधुता ॥ ३५९ ॥ अन्यदा कालपर्यायादासाद्य निजसाधुताम् । समुत्पन्नो बुधो 8 ॥५२६॥ नाम, तत्सुतो लोकविश्रुतः ॥ ३६० ॥ आकरो गुणरत्नानां, कलाकौशलमन्दिरम् । स वर्धमानः संजातो, रूपेण मकरध्वजः ॥ ३६१॥ भ्राता शुभविपाकस्य, जगत्तापकरः परः । तथाऽशुभविपाकोऽस्ति, भीषणो जनमेजयः ॥ ३६२ ॥ तस्य विख्यातमाहात्म्या, लोकसन्तापकारिणी । देवी परिणतिर्नाम, विद्यते भीमविग्रहा ॥ ३६३ ।। अथ ताभ्यां समुत्पन्नो, दारुणाकारधारकः । विषाङ्कुरोपमः क्रूरो, मन्दो नाम सुताधमः ।। ३६४ ॥ आवासो दोषकोटीनां, गुणगन्धविवर्जितः । संपन्नो वर्धमानोऽसौ, तथापि मदविह्वलः ॥ ३६५ ॥ पितृव्यपुत्रभावेन, तयोश्च बुधमन्दयोः । यदृच्छया वा संपन्ना, भ्रात्रोमैंत्री मनोहरा ।। ३६६ ॥ सहितावेव तौ नित्यं, नगरे काननेषु च ।। तो विचरतः स्वेच्छाक्रीडारसपरायणौ ॥ ३६७ ॥ अथास्ति धिषणा नाम, पुरे विमलमानसे । शुभाभिप्रायराजस्य, दुहिता चारुदर्शना ॥ ३६८ ॥ सा तेन यौवनस्थेन, बुधेन वरलोचना । गृहे स्वयंवरायाता, परिणीता कृतोत्सवा ॥ ३६९॥ तस्याश्च कालपर्यायात् , निःशेषगुणमन्दिरम् । मनोरथशतैर्जातो, विचारो नाम पुत्रकः ॥ ३७० ॥ अथान्यदा निजे क्षेत्रे, क्रीडतोर्बुधमन्दयोः । यस्तदानीं समापन्नो, वृत्तान्तस्तं निबोधत ॥३७१॥ तस्य क्षेत्रस्य पर्यन्ते, दृष्टस्ताभ्यां मनोरमः । ललाटपट्टसन्नामा, विशालो वरपर्वतः ॥३७२॥ तस्योपरिष्टादुत्तुङ्गे, शिखरे सुमनोहरा । निलीनालिकुलच्छाया, कबर्याख्या वनावली ॥ ३७३ ।। ललाटपट्टनामानं, पर्वतं तं निरीक्षितुम् । अथ तौ लीलया तत्र, प्रदेशे समुपागतौ ॥ ३७४ ॥ यावद्दृष्टा सुदीर्घाभिः, शिलाभिः परिनिर्मिता । तस्याधस्ताद्गता दूर, नासि ॥५२६॥ Jain Education Inten For Private & Personel Use Only Indainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy