________________
उपमितौ
प. ५.प्र.
॥ ५२५ ॥
Jain Education Inter
क्यमिदमत्यन्तसुन्दरम् । हृष्टः स धवलो राजा, ते च लोकाः प्रमोदिताः ॥ ३३९ ॥ ततश्च - विलत्कर्मजालैस्तैः समस्तैर्भक्तिनिर्भरैः । इदमुक्तमनूचानैर्ललाटे कृतकुड्मलैः ॥ ३४० ॥ येषां नो भगवान्नाथः, संपन्नोऽत्यन्तवत्सलः । तेषां न दुर्लभो नाम, वृत्तान्तोऽयं यतीश्वर ! ॥ ३४१ ॥ अतो भगवताऽस्माकं, निर्विकल्पेन चेतसा । दीयतामधुनाऽऽदेशो, मादृशैः किं विधीयताम् ? ॥ ३४२ ॥ बुधसू|रिराह - चारु चारूदितं भद्राः !, सुन्दरा भवतां मतिः । विज्ञातं ननु युष्माभिः सर्व मामकभाषितम् ॥ ३४३ ॥ बुद्धो मदीयवाक्यार्थः, सभावार्थो नरोत्तमाः ! । साम्प्रतं हि महाराज !, सफलो मे परिश्रमः || ३४४ ॥ इयानेव ममादेशो भवद्भिः क्रियतामिह । यन्मया विहितं भूप !, तद्भवद्भिर्विधीयताम् ॥ ३४५ ॥ नृपतिरुवाच — भदन्त ! किं भवद्भिर्विहितं ?, बुधसूरिराह – पर्यालोच्य मयाऽसारं, संसारं चारकोपमम् । दीक्षा भागवती भूप !, गृहीता तन्निबर्हिणी ॥ ३४६ ॥ युष्माकमपि चेज्जातो, मदीयवचनेन भोः ! । अनन्तदुःखविस्तारे, निर्वेदो भवचारके || ३४७ ॥ ततो गृह्णीत तां दीक्षां, संसारोच्छेदकारिणीम् । हे लोका! मा विलम्बध्वं, धर्मस्य त्वरिता गतिः ॥ ३४८ ॥ युग्मम् । नृपतिरुवाच — यदादिष्टं भदन्तेन, स्थितं तन्मम मानसे । किंचित्तु भवता तावत्कथ्यतां मे कुतूहलम् ॥ ३४९ ॥ एते प्रबोधिता नाथ !, यत्नेन भवता वयम् । भवांस्तु बोधितः केन !, कथं वा ? कुत्र वा पुरे ? ॥ ३५० ॥ किं वा जातः ? स्वयंबुद्धो, भदन्त ! परमेश्वरः । सर्व निवेद्यतां नाथ !, ममेदं हितकाम्यया ॥ ३५१ ॥ युग्मम् । सूरिराह महाराज !, साधूनामात्मवर्णनम् । नैवेह युज्यते कर्तुं तद्धि लाघवकारणम् ॥ ३५२ ॥ ममात्मचरिते तच्च, कथ्यमाने परिस्फुटम् । यतः संपद्यते तस्मान्न युक्तं तस्य कीर्तनम् ॥ ३५३ ॥ ततो धवलराजेन, प्रणम्य चरणद्वयम् । स पृष्टः कौतुकावेशान्निर्बन्धेन पुनः पुनः ॥ ३५४ ॥ अथ विज्ञाय निर्बन्धं, तादृशं तस्य भूपतेः । कुतूहलं जनानां च ततः सूरिरभाषत ॥ ३५५ ॥ - यद्यस्ति ते महाराज !, महदत्र कुतूहलम् । ततो निवेद्यते
For Private & Personal Use Only
दीक्षोपदेशः
।। ५२५ ।।
jainelibrary.org