SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ५- प्र. ॥ ५२४ ॥ Jain Education In | वियोक्ष्यते ? ॥ ३३८ ॥ ततो जिनमहावैद्योपदेशादवधारयति सद्धर्मगुरुस्तत्रोपायं, ततो धूर्ततस्करेष्विव सुप्तेषु रागादिषु क्षयोपशममुपगतेषु प्रज्वालयति जीवस्वरूपशिवमन्दिरे सज्ज्ञानप्रदीपं पाययति सम्यग्दर्शनामलजलं समर्पयति चारित्रवज्रदण्डं, ततोऽयं “ जीव“लोकः सज्ज्ञानप्रदीपोद्योतितस्वरूपशिवमन्दिरे महाप्रभाव सम्यग्दर्शन सलिलपाननष्टकर्मोन्मादो गृहीतचारित्रदण्डभासुरो गुरुवचनेनैव “निर्दलयति सस्पर्धमाहूय महामोहादिधूर्ततस्करगणं, तं च निर्दलयतोऽस्य जीवलोकस्य विशालीभवति कुशलाशयः क्षीयन्ते प्राचीनक "र्माणि न बध्यन्ते नूतनानि विलीयते दुश्चरितानुबन्धः समुल्लसति जीववीर्यं निर्मलीभवत्यात्मा परिणमति गाढमप्रमादो निवर्तन्ते मि“ध्याविकल्पाः स्थिरीभवति समाधिरत्नं प्रहीयते भवसन्तानः, ततः प्रविघाटयत्येष जीवलोकश्चित्तापवरकावरणकपाटं, ततः प्रादुर्भवति “स्वाभाविकगुणकुटुम्बकं विस्फुरन्ति ऋद्धिविशेषाः विलोकयति तानेष जीवलोको विमलसंवेदनालोकेन, ततः संजायते निरभिष्वङ्गान“न्दसन्दोहः समुत्पद्यते बहुदोषभवग्रामजिहासा उपशाम्यति विषयमृगतृष्णिका रूक्षीभवत्यन्तर्यामी विचरन्ति सूक्ष्मकर्मपरमाणवः व्या“ वर्तते चिन्ता संतिष्ठते विशुद्धध्यानं दृढीभवति योगरत्नं जायते महासामायिकं प्रवर्ततेऽपूर्वकरणं विजृम्भते क्षपकश्रेणी निहन्यते कर्म"जालशक्तिः विवर्तते शुक्रुध्यानानलः प्रकटीभवति योगमाहात्म्यं विमोच्यते सर्वथा घातिकर्मपाशेभ्यः क्षेत्रज्ञः स्थाप्यते परमयोगे देदी“प्यते विमलकेवलालोकेन कुरुते जगदनुग्रहं विधत्ते च केवलिसमुद्घातं समानयति कर्मशेषं संपादयति योगनिरोधं समारोहति शैलेश्य"वस्थां त्रोटयति भवोपग्राहिकर्मबन्धनं विमुञ्चति सर्वथा देहपञ्जरं ततो विहाय भवग्राममेष जीवलोकः सततानन्दो निराबाधो गत्वा “ तत्र शिवालयाभिधाने महामठे सारगुरुरिव सभावकुटुम्बकः सकलकालं तिष्ठतीति ॥ अनेन हेतुना महाराज ! मयोक्तं यथा यादृशं तस्य सारगुरोर्वृत्तान्तान्तरं संपन्नं तादृशं यदि भवतामपि संपद्येत ततो भवेदितो विडम्बनान्मोक्षो, नान्यथेति । ततः श्रुत्वा मुनेर्वा - For Private & Personal Use Only ज्ञानप्रदी पादिमहिमा ।। ५२४ ॥ ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy