________________
बठरगुरो
उपमिती प.५-प्र.
वत्तान्ता
न्तरं
॥५२३॥
भविष्यति भवतामितो भवविडम्बनान्मोक्षो यदि यादृशं तस्य बठरगुरोर्वृत्तान्तान्तरं संपन्नं तादृशं भवतामपि संपद्येत, नृपतिराहभदन्त ! किं पुनस्तस्य संपन्नं ?, भगवतोक्तं-महाराज! तं तथाऽनवरतं तैर्धूर्ततस्करैः खलीक्रियमाणं बठरगुरुमुपलभ्य समुत्पन्ना कस्य-* चिदेकस्य महामाहेश्वरस्य तस्योपरि करुणा, यदुत-कथमस्य दुःखविमोक्षो जायेत?, ततः पृष्टोऽनेनैको महावैद्यः, दत्तस्तेनोपदेशः सम्यगवधारितोऽनेन गृहीतमुपकरणं गतो रात्रौ शिवायतनं, इतश्च बृहती वेलां नाटयित्वा बठरगुरुं श्रान्ता इव प्रसुप्तास्ते तस्मिन्नवसरे धूर्ततस्कराः, ततः प्रविष्टो माहेश्वरः प्रज्वालितोऽनेन शिवमन्दिरे प्रदीपः ततो दृष्टोऽसौ बठरगुरुणा माहेश्वरः, तथाभव्यतया च संजातखेदेन याचितोऽसौ जलपानं, माहेश्वरः प्राह भट्टारक! पिबेदं तत्त्वरोचकं नाम सत्तीर्थोदकं पीतमनेन ततः प्रनष्टः क्षणादुन्मादो निर्मलीभूता चेतना विलोकितं शिवमन्दिरं दृष्टास्ते धूर्ततस्कराः, किमेतदिति पृष्टो माहेश्वरः ?, कथितोऽनेन शनैः शनैः सर्वोऽपि वृत्तान्तः, ततोऽभिहितं शैवेन तर्हि किं मयाऽधुना विधेयं ?, ततः समर्पितो माहेश्वरेणास्य वनदण्डः, प्राह च-भट्टारक! वैरिणस्तवैते ततो निपातय मा विलम्बिष्ठाः ततः समुत्थाप्य चूर्णिता वनदण्डेन ते सर्वेऽपि तस्कराः शैवेन प्रविघाटितश्चित्तापवरकः प्रकटीभूतं कुटुम्बकं आविर्भूता रत्नराशयः प्रविलोकिता सर्वापि निजशिवमन्दिरविभूतिः संजातः प्रमोदातिरेकः ततो बहुतस्करं परित्यज्य तं भवग्राम स्थितस्ततो बहिर्भूते निरुपद्रवे शिवालयाभिधाने गत्वा महामठे स सारगुरुरिति । तद्यमीदृशो वृत्तान्तस्तस्य संपन्नः । नृपतिरुवाच|भदन्त ! कथमेष वृत्तान्तोऽत्र जने समानः ?, भगवानाह-महाराजाकर्णय-महामाहेश्वरस्थानीयोऽत्र सद्धर्मप्रबोधकरो गुरुर्द्रष्टव्यो, यतः-विडम्ब्यमानं रागादितस्करैर्दुःखपीडितम् । भावैश्वर्यपरिभ्रष्ट, स्वकुटुम्बवियोजितम् ॥ ३३६ ॥ लोकभौतं भवग्रामे, वीक्ष्य भिक्षाचरोपमम् । तन्मात्रेणैव संतुष्टं, कर्मोन्मादेन विह्वलम् ॥ ३३७ ॥ सद्धर्मगुरुरेवात्र, जायते करुणापरः । अमुष्माहुःखसन्तानात्कथमेष
उपनयः
॥५२३॥
Jain Education in
For Private & Personel Use Only
Xww.jainelibrary.org