________________
उपमितौ
प. ५-प्र. ॥ ५२२ ॥
Jain Education Inter
गायन् रटन्नुच्चैर्नृत्यन्नुद्दामलीलया । तेषु तेषु महाराज !, योनिगेहेषु हिण्डते ॥ ३२० ॥ यथा च हृदये तुष्टः, स भौतो भिक्षया तया । वराको नैव जानीते, हृतं रत्नभृतं गृहम् ॥ ३२९ ॥ अभिभूतं कुटुम्बं च सुन्दरं गाढवत्सलम् । न लक्षयति चात्मानं, दुःखसागरमध्यगम् ॥ ३२२ ॥ केवलं मोहदोषेण, संतुष्टः सुखनिर्भरः । वल्गमानो जने गाढं करोत्यात्मविडम्बनम् ॥ ३२३ ॥ तथाऽयमपि रा - जेन्द्र !, जीवलोकः कथञ्चन । संसारे यद्यवाप्नोति, तुच्छं वैषयिकं सुखम् ॥ ३२४ ॥ तथा — इन्द्रत्वं विबुधत्वं ज्ञा, राज्यं रत्नधनादिकम् । पुत्रं कलत्रमन्यद्वा लभते यदि किश्चन ॥ ३२५ ॥ ततोऽलीकाभिमानेन, किलाहं सुखनिर्भरः । मीलनिः मन्दमन्दाक्षो न चेतयति किश्चन ॥ ३२६ ॥ ततश्च - अहो सुखमहो स्वर्गो, धन्योऽहमिति भावितः । एवं विचेष्टते भूप !, यथाऽय तावको जनः ॥ ३२७॥ अनन्तदर्शनज्ञानवीर्यानन्दादिभिः सदा । भावरत्नैर्भृतं त्वात्मस्वरूपं नावबुध्यते ॥ ३२८ ॥ वराको न च जानता यथेदं भावतस्करैः । हृतं रागादिभिर्मेऽत्र, स्वरूपं मन्दिरोपमम् ॥ ३२९ ॥ क्षमामार्दवसत्यादिरूपं भावकुटुम्बकम् । न चायं बुध्यते लोकः, सुन्दरं हितबत्सलम् ॥ ३३० ॥ इदं च न विजानीते, चित्तापवरके यथा । अमीभिरेव रागाद्यैरभिभूय तिरोहितम् ॥ ३३१ ॥ ततोऽयं तादृशैश्वर्यादनन्तानन्ददायिनः । भ्रंशितः सुखहेतोच, कुटुम्बात्तैर्वियोजितः ॥ ३३२ ॥ भवप्रामे, दु:खसङ्घातपूरिते । तथापि लोको रागादीन् वयस्यानिव मन्यते ॥ ३३३ ॥ भिक्षाभूतमिदं लब्ध्वा, तथा वैषयिकं सुखम् । हृष्टो नृत्यति मूढात्मा, यथाऽसौ बठरो गुरुः ॥ ३३४ ॥ तदेवमेष राजेन्द्र !, जनस्तत्त्वं न बुध्यते । दुःखसागरमध्यस्थः, सुखित्वं तेन मन्यते ॥ ३३५ ॥ धवलराजेनोक्तं - भदन्त ! यद्येवं ततः सततमुन्मत्ता वयं विषमा रागादितस्कराः मुषितं स्वरूपशिवायतनं नाशितं भावकुटुम्बकं पर्यटामो भवप्रामे सुदुर्लभा भोगभिक्षा तलवलाभेन तुष्टा वयं निमग्नाः परमार्थतो दुःखसागरे अतः कथं पुनरितोऽस्माकं मोक्षो भविष्यतीति, बुधसूरिणोक्तं महाराज!
For Private & Personal Use Only
जीवलोके
उपनयः
॥ ५२२ ॥
w.jainelibrary.org