________________
उपमितौ प. ५-प्र.
॥ ५२१ ॥
Jain Education Inter
"
नम् ॥ ३०० ॥ ततस्तेऽपि भवप्रामे, भिक्षाटनविधित्सया । निःसारयन्ति दर्पिष्ठास्तं लोकं भौतसन्निभम् ॥ ३०१ ॥ कथम् ? – कृष्णपापमषीलेपपुण्ड्रकैर्गाढचर्चितम् । विशालनरकायुष्कवितीर्णघटकर्परम् ॥ ३०२ ॥ तिर्यङ्नारकमानुष्यदेवसम्बन्धिनो भवाः । विज्ञेयास्ते भवग्रामे, चत्वारः पाटकास्त्वया ॥ ३०३ ॥ जघन्यातिजघन्यौ द्वौ तत्राद्यौ परिकीर्तितौ । उत्कृष्टो मानुषो ज्ञेयस्तथोत्कृष्टतरः परः ॥ ३०४ ॥ कर्परं च शरावं च ताम्रं राजतमेव च । भाजनं लोकभौतस्य तदायुष्कमुदाहृतम् ॥ ३०५ ॥ स एष जीवलोकस्तैर्वेष्टितो | भावतस्करैः । पापात्मा नरकं यायादाद्यपाटकसन्निभम् ॥ ३०६ ॥ तत्रासौ याचमानोऽपि नाश्रुते भोगभोजनम् । घोरैर्नरकपालैश्च, पीड्यते पिङ्गसन्निभैः || ३०७ ॥ तीव्रानन्तमहादुःखसङ्घातमनुभूय च । आयुष्ककर्परे भग्ने, निर्गच्छेच्च ततः क्वचित् ॥ ३०८ ॥ अथ तिर्यग्भवं प्राप्य, द्वितीयमिव पाटकम् । ततोऽसौ पर्यटेत्तत्र, भोगभोजनलम्पटः ॥ ३०९ ॥ अथ तत्रापि नैवासौ, लभते भोगभोजनम् । क्षुदादिषिङ्ग लोकेन, केवलं परिपीड्यते ॥ ३१० ॥ पुनश्च तिर्यगायुष्के, कचिन्निष्ठां गते सति । तृतीयपाटकाकारं, मानुष्यकमवाप्नुते ॥ ३११ ॥ अथ तत्र भवेदस्य, पुण्यलेशः कथञ्चन । आन्तरैश्वर्ययुक्तत्वे, सा छाया परिकीर्तिता ॥ ३१२ ॥ ततश्च - या छायाऽस्य महाराज !, सा पुण्यलवलक्षणा । तया हि जीवलोकोऽत्र, लभते भोगभोजनम् ॥ ३१३ ॥ तथा मनुष्यभावेऽपि, राजदायादतस्करैः । रागादिभिश्च पीड्येत, धूर्तोक्तजनसन्निभैः ॥ ३१४ ॥ स ताम्रभाजनाकारे, नरायुष्केऽतिलङ्घिते । गच्छेद्देवभवं लोकस्तुर्यपाटकसन्निभम् ।। ३१५ ॥ अन्तरङ्गमहारत्नच्छाया तत्र गरीयसी । नरेन्द्र ! जीवलोकस्य, देवलोके विभाव्यते ॥ ३१६ ॥ ततस्तत्र भवे भूरि, लभते भोगभोजनम् । दधानो राजताकारममरायुष्कभाजनम् ॥ ३१७ ॥ एवमेष महाराज !, लोकभौतो दिवानिशम् । बुभुक्षितो भवा, बम्भ्रमीति पुनः पुनः ॥ ३१८ ॥ उन्मत्तः कर्मयोगेन पापमध्या विलेपितः । रागादिभिः कृतारावैर्वेष्टितो घूर्ततस्करैः ।। ३१९ ॥ हसन्
For Private & Personal Use Only
जीवलोके उपनयः
॥ ५२१ ॥
www.jainelibrary.org