________________
जीवलोके उपनयः
उपमितीचार्यों निगद्यते । तस्य स्वाभाविकाः सर्वे, ये गुणास्तत्कुटुम्बकम् ॥ २८२ ॥ तत्तु स्वाभाविकं तस्य, सुन्दरं हितकारि च । तथापि जीवप. ५-अ. लोकस्य, न चित्ते प्रतिभासते ॥ २८३ ।। सोऽयं लोकः सदोन्मत्तः, कर्मयोगेन वर्तते । न जानीते निजं रूपं, गुणरत्नादिपूरितम्
॥ २८४ ॥ रागादिदोषाः सर्वेऽपि, तस्कराः परिकीर्तिताः । त एव हि महाधूर्ता, जीवलोकस्य वञ्चकाः ॥ २८५ ॥ सुहृदस्ते प्रभा॥५२०॥
सन्ते, जीवलोकस्य वल्लभाः । ते च गाढं प्रकुर्वन्ति, कर्मोन्मादस्य वर्धनम् ॥ २८६ ॥ ते स्वरूपं वशीकृत्य, जीवलोकस्य ये गुणाः। कुटुम्बमन्तस्तत्क्षिप्त्वा, चित्तद्वारं निरुन्धते ॥ २८७ ॥ तदेवं ते धरानाथ!, गुणसम्भारपूरितम् । स्वरूपं जीवलोकस्य, हृत्वा मन्दिरसनिभम् ॥ २८८ ॥ अभिभूय तिरोधाय, तस्य भावकुटुम्बकम् । बृहद्धूर्तोपमं राज्ये, महामोहं निधाय च ॥ २८९ ॥ रागादिदोषाः सवेऽपि, तस्याप्रे हृष्टमानसाः । तं लोकं वर्धितोन्मादं, नाटयन्ति वशीकृतम् ॥ २९० ॥ स एष श्रूयते भूप!, महाकोलाहलः सदा । गीततालरवोन्मिश्रः, कृतो रागादितस्करैः ।। २९१ ॥ माहेश्वरास्तु विज्ञेयास्ते जीवा जैनदर्शने । प्रबुद्धास्ते हि तं लोकं, वारयन्ति क्षणे क्षणे ॥ २९२ ॥ कथं ?-जीवलोक! न युक्तस्ते, सङ्गो रागादितस्करैः। सर्वस्वहारका दुष्टास्तवैते भावशत्रवः ॥ २९३ ॥ स तु कर्ममहोन्मादविह्वलीभूतचेतनः । हितं तत्तादृशं वाक्यं, जीवलोकोऽवमन्यते ॥ २९४ ॥ सुन्दराः सुहृदो धन्या, ममैते हितहेतवः ।। एवं हि मन्यते मूढो, रागादीनेष भावतः ॥ २९५ ॥ ततो माहेश्वराकारैः, स सारगुरुसन्निभः । तैतितत्त्वैर्मूर्खत्वादठरो गुरुरुच्यते ॥ २९६ ॥ तं लोकभौतं विज्ञाय, वृतं रागादितस्करैः । जैनमाहेश्वरास्तख, त्यजन्ति शिवमन्दिरम् ॥ २९७ ॥ यथा च याचितास्तेन, क्षुधाक्षामण भोजनम् । ते तस्कराः करे दत्तं, तैस्तस्य घटकर्परम् ॥ २९८ ॥ विलिप्तश्च मषीपुण्ड्रेनीतो भिक्षाऽटनेन सः । तदिदं जीवलोकेऽपि, समानमिति गृह्यताम् ॥२९९॥ तथाहि-भोगाकाङ्क्षाक्षुधाक्षामो, जीवलोकोऽपि वर्तते । रागादीनेष यत्नेन, याचते भोगभोज
Jain Education in
For Private & Personal Use Only
K
ww.jainelibrary.org