SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ बठरगुरुदृष्टान्तः उपमितौ यथा-चूर्णयतैनं, ततस्तैः किं कृतं?-यष्टिमुष्टिमहालोष्टप्रहारैस्ताडितो भृशम् । स वराको रटत्रुच्चैः, कृतान्तैरिव दारुणैः ॥ २६८॥ अनुभूय महादुःखं, चिरं भिक्षाविवर्जितः । निर्गतः पाटकात्तस्मात्ततोऽसौ भग्नकर्परः ॥२६९ ॥ ततः समर्पितं तैस्तस्करैस्तस्य शरावं नीतस्तत्र जघन्यपाटके तत्रापि न लभते भिक्षा बाध्यते षिड्गजनेन-ततस्तत्रापि पर्यट्य, चिरं भन्ने शरावके । उत्कृष्टपाटके नीतस्तैर्दत्त्वा ॥५१९॥ त ताम्रभाजनम् ॥ २७० ॥ तत्रासौ विरलां भिक्षा, लभते छायया तया । यथाऽयं देवगेहस्य, रत्नपूर्णस्य नायकः ॥ २७१ ॥ कदर्थ्यते च तत्रापि, षिगलोकैस्तथा परैः । अथान्यदा कचित्तस्य, भग्नं तत्ताम्रभाजनम् ।। २७२ ।। तत्र भने पुनः पात्रे, दत्त्वा राजतभाजनम् । ४ तथैव वेष्टितश्चौरैनीतोऽसौ तुर्यपाटके ।। २७३ ॥ तत्र चात्यन्तविख्यातः, किलायं रत्ननायकः । ततः सुसंस्कृतां भिक्षा, लभतेऽसौ गृहे तगृहे ।। २७४ ॥ एवं ते तस्करास्तेषु, पाटकेषु पुनः पुनः । भ्रमयन्त्येव तं भौतं, नाटयन्तो दिवानिशम् ॥ २७५ ॥ हसन्तश्चूर्णयन्तश्च, वल्गमाना गृहे गृहे । कृततालारवा हृष्टा, नानारूपैर्विडम्बनैः ॥ २७६ ॥ स तथा क्रियमाणोऽपि, तस्करैर्बठरो गुरुः । भिक्षामात्रेण हृष्टात्मा, वलाते पूरितोदरः ॥ २७७ ॥ गायति च, कथम् ?–अतिवत्सलको मम मित्रगणः, कुरुते विनयं च समस्तजनः । तदिदं मम राज्यमहो प्रकटं, भ्रियते जठरं सुधया विकटम् ॥ २७८ ॥ अन्यच्च-आत्मानं मन्यते मूढो, मग्नं च सुखसागरे । द्वेष्टि तस्करदोषाणां, कथकं स जडो जनम् ? ॥ २७९ ॥ न पुनरसौ वराको बहिर्भावितं रत्नादिसमृद्धादात्मीयभवनाच्यावितमनुरक्तसुन्दरनिजकुटुम्बात् पातितं दुःखसमुद्रे शोच्यमात्मानमाकलयतीति ॥ तदेष महाराज! निवेदितस्ते मया बठरगुरुर्येन सदृशोऽयं लोक इति ॥ नृपतिराह-कथमेतत् ?, भगवतोक्तं—आकर्णय-ग्रामोऽत्र भूप! संसारो, विस्तीर्णस्तस्य मध्यगम् । स्वरूपं जीवलोकस्य, विज्ञेयं शिवमन्दिरम् ।। २८० ॥ तदेव ज्ञानवीर्यादिरत्नपूरैश्च पूरितम् । संपूर्ण सर्वकामैश्च, परमानन्दकारणम् ॥ २८१ ॥ जीवलोकश्च तत्स्वामी, भौता जीवलोके उपनयः ॥५१९॥ ॐॐॐॐ lain Education intense For Private & Personel Use Only VILww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy