SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ बठरगुरुदृष्टान्तः उपमितौ यथा-चूर्णयतैनं, ततस्तैः किं कृतं?-यष्टिमुष्टिमहालोष्टप्रहारैस्ताडितो भृशम् । स वराको रटत्रुच्चैः, कृतान्तैरिव दारुणैः ॥ २६८॥ अनुभूय महादुःखं, चिरं भिक्षाविवर्जितः । निर्गतः पाटकात्तस्मात्ततोऽसौ भग्नकर्परः ॥२६९ ॥ ततः समर्पितं तैस्तस्करैस्तस्य शरावं नीतस्तत्र जघन्यपाटके तत्रापि न लभते भिक्षा बाध्यते षिड्गजनेन-ततस्तत्रापि पर्यट्य, चिरं भन्ने शरावके । उत्कृष्टपाटके नीतस्तैर्दत्त्वा ॥५१९॥ त ताम्रभाजनम् ॥ २७० ॥ तत्रासौ विरलां भिक्षा, लभते छायया तया । यथाऽयं देवगेहस्य, रत्नपूर्णस्य नायकः ॥ २७१ ॥ कदर्थ्यते च तत्रापि, षिगलोकैस्तथा परैः । अथान्यदा कचित्तस्य, भग्नं तत्ताम्रभाजनम् ।। २७२ ।। तत्र भने पुनः पात्रे, दत्त्वा राजतभाजनम् । ४ तथैव वेष्टितश्चौरैनीतोऽसौ तुर्यपाटके ।। २७३ ॥ तत्र चात्यन्तविख्यातः, किलायं रत्ननायकः । ततः सुसंस्कृतां भिक्षा, लभतेऽसौ गृहे तगृहे ।। २७४ ॥ एवं ते तस्करास्तेषु, पाटकेषु पुनः पुनः । भ्रमयन्त्येव तं भौतं, नाटयन्तो दिवानिशम् ॥ २७५ ॥ हसन्तश्चूर्णयन्तश्च, वल्गमाना गृहे गृहे । कृततालारवा हृष्टा, नानारूपैर्विडम्बनैः ॥ २७६ ॥ स तथा क्रियमाणोऽपि, तस्करैर्बठरो गुरुः । भिक्षामात्रेण हृष्टात्मा, वलाते पूरितोदरः ॥ २७७ ॥ गायति च, कथम् ?–अतिवत्सलको मम मित्रगणः, कुरुते विनयं च समस्तजनः । तदिदं मम राज्यमहो प्रकटं, भ्रियते जठरं सुधया विकटम् ॥ २७८ ॥ अन्यच्च-आत्मानं मन्यते मूढो, मग्नं च सुखसागरे । द्वेष्टि तस्करदोषाणां, कथकं स जडो जनम् ? ॥ २७९ ॥ न पुनरसौ वराको बहिर्भावितं रत्नादिसमृद्धादात्मीयभवनाच्यावितमनुरक्तसुन्दरनिजकुटुम्बात् पातितं दुःखसमुद्रे शोच्यमात्मानमाकलयतीति ॥ तदेष महाराज! निवेदितस्ते मया बठरगुरुर्येन सदृशोऽयं लोक इति ॥ नृपतिराह-कथमेतत् ?, भगवतोक्तं—आकर्णय-ग्रामोऽत्र भूप! संसारो, विस्तीर्णस्तस्य मध्यगम् । स्वरूपं जीवलोकस्य, विज्ञेयं शिवमन्दिरम् ।। २८० ॥ तदेव ज्ञानवीर्यादिरत्नपूरैश्च पूरितम् । संपूर्ण सर्वकामैश्च, परमानन्दकारणम् ॥ २८१ ॥ जीवलोकश्च तत्स्वामी, भौता जीवलोके उपनयः ॥५१९॥ ॐॐॐॐ lain Education intense For Private & Personel Use Only VILww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy