________________
उपमितौ प. ५-अ.
बुधसुरिकथितं । संसारिस्वरूपं
॥५१५॥
भावरत्नानि भूपते! 1 चित्तापवरके नित्यं, जाज्वल्यन्ते महात्मनाम् ॥ २३७ ।। अतस्ते धनिनो धन्यास्त एव परमेश्वराः । ते शक्ता भुवनस्यापि, पोषणे नास्ति संशयः ॥ २३८ ॥ मलिना मलिनैर्भूप!, बहिश्चीवरखण्डकैः । अलाबुहस्ता दृश्यन्ते, दरिद्रा इव मुग्धकैः ॥ २३९ ॥ तथापि परमार्थेन, ते महारत्ननायकाः । विज्ञेयाः पण्डितैर्भूप!, मुनयः परमेश्वराः॥ २४० ।। किं च-तृणापादनकोटीच, पातयन्ति स्वतेजसा । यदि कार्य भवेत्ताभिस्तेषां भूप! महात्मनाम् ।। २४१ ॥ अतः स्वकीयं दारिद्यमनालोच्य भवादृशैः । महाधनोऽपि मादृक्षः, कथमुक्तो दरिद्रकः? ॥ २४२ ॥ मलिनोऽपि स एवात्र, यः कर्ममलपूरितः । बहिः क्षालितसद्गात्रवस्रोऽपि जगतीपते ! ॥ २४३ ॥ तुषारहारगोक्षीरनिर्मलीमसमानसः । बहिर्मलधरोऽप्यत्र, निर्मलो मानवेश्वर! ॥ २४४ ॥ तदिदं भावमालिन्यमविचार्याऽऽत्मनि स्थितम् । अहं हा हसितः केन, कारणेन पुरा जनैः ? ॥ २४५ ॥ सुभगोऽपि जगत्यत्र, सद्धर्मनिरतो नरः । विवेकिनां समस्तानां, यस्मादत्यन्तवल्लभः ॥ २४६ ॥ सुरासुरसमायुक्तं, जगदेतचराचरम् । बन्धुभूतं हि वर्तेत, सद्धर्मगतचेतसाम् ॥ २४ ॥ तस्मात्साधुः सदाचारो, लोके सौभाग्यमर्हति । तत्र ये कुर्वते द्वेष, पापिष्ठास्ते नराधमाः ॥ २४८ ॥ पुमानधर्मभूयिष्ठो, दुर्भगो भावतो मतः । निन्दन्ति तं यतः सर्वे, महाराज! विवेकिनः ॥ २४९ ॥ तस्मात्पापे रतः प्राणी, लोके दौर्भाग्यमर्हति । तमप्यत्र प्रशंसन्ति, ये ते पापा नराधिप! ॥ २५० ॥ एवं च स्थिते-धार्मिको मुनिवेषेण, प्रकटोऽपि पुरा जनैः । दुर्भगैः सुभगोऽप्यस्मि, केन कार्येण निन्दितः ॥ २५१ ॥ एवं च स्थिते "महाराज! य इमे जिनवचनामृतबहिर्भूताः संसारोदरवर्तिनो जन्तवोऽनवरतं वराका बध्यन्ते "दृढकर्मसन्तानरज्वा पीड्यन्ते विषयासन्तोषबुभुक्षया शुष्यन्ति विषयाशापिपासया खिद्यन्ते निरन्तरभवचक्रभ्रमणेन सततोपतप्ताः "कषायघर्मोष्मणा गृह्यन्ते मिथ्यात्वमहाकुष्ठेन तुद्यन्ते परेयाशूलेन जीर्यन्ते दीर्घसंसारावस्थानेन दन्दह्यन्ते रागमहाज्वरेण अन्धीक्रियन्ते
ARASAACAA
Jain Educational
For Private & Personel Use Only
Al
ww.jainelibrary.org