SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥५१४॥ "प्रामो, दृष्टनष्टं च जीवितम् । चला विभूतयः सर्वा, देहश्च क्षणभङ्गुरः ॥ २१९ ॥ शत्रुः प्रमादो जीवानां, दुस्तरः पापसञ्चयः। बुधसुरि"असंयतत्वं दुःखाय, भीमो नरककूपकः ॥२२० ॥ अनित्याः प्रियसंयोगा, भवन्त्यप्रियसङ्गमाः । क्षणरक्तविरक्ताश्व, योषितो मित्र- कथितं | "बान्धवाः ॥ २२१ ॥ उग्रो मिथ्यात्ववेतालो, जरा करविवर्तिनी । भोगाश्चानन्तदुःखाय, दारुणो मृत्युभूधरः ॥ २२२ ॥” एतत्सर्व-10 संसारिमनालोच्य, कृत्वा पादप्रसारिकाम् । विवेकचक्षुः संमील्य, स्वपन्ति ननु जन्तवः ॥ २२३ ॥ महाघुरघुरारावं, कुर्वन्तो नष्टचेतनाः ।। स्वरूपं कथञ्चिन्न प्रबुध्यन्ते, शब्दैरपि विवेकिनाम् ।। २२४ ॥ विबुद्धा अपि कृच्छ्रेण, धूर्णमानेन चक्षुषा । भूयो भूयः स्वपन्त्येव, ते महामो-| हनिद्रया ॥ २२५ ।। अन्यच्च-कुतो वयं समायाताः?, प्रापिताः केन कर्मणा? । कागताः ? क च यास्यामो?, विदन्त्येतन्न मूढकाः | ॥ २२६ ॥ ततो यद्यपि दृश्यन्ते, वल्गमानाः पृथग्जनाः । तथापि तत्त्वतो भूप!, विज्ञेयाः प्रचलायिताः ॥ २२७ ॥ साधूनां पुनरेषा भो!, महामोहतमोमयी । निद्रा नास्त्येव धन्यानां, तेन ते नित्यजागराः ॥ २२८ ॥ सर्वज्ञागमदीपेन, साधवस्ते महाधियः । गत्यागती प्रपश्यन्ति, स्वस्यान्येषां च देहिनाम् ।। २२९ ।। ततश्च ते बहिन्द्रिया भूप!, सुप्ता अपि कथञ्चन । असुप्ता इति विज्ञेया, विवेकोन्मीलितेक्षणाः ॥ २३० ॥ इदमेव मया सर्व, संचिन्त्य हृदये पुरा । यूयं भोः! प्रचलायध्वे, नाहमित्येव भाषितम् ॥ २३१ ॥ तथायूयमेव न जानीथ, स्वरूपं मोहनिद्रिताः । मम प्रत्यक्षमेवेदं, विवेकस्फुटचक्षुषः ॥ २३२ ॥ अन्यच्चैवं व्यवस्थिते-ये सद्धर्मबहिर्भूतास्त एव परमार्थतः । देहिनो भूप! विज्ञेया, दारिद्र्याक्रान्तमूर्तयः ॥ २३३ ॥ तथाहि-ज्ञानदर्शनचारित्रवीर्यादीनि नरेश्वर । न सन्ति भावरत्नानि, तेषां पापहतात्मनाम् ॥ २३४ ॥ तान्येव धनसाराणि, तान्येवैश्वर्यकारणम् । तान्येव सुन्दराणीह, तैर्विना कीदृशं धनम् ? || ५१४॥ ॥ २३५ ॥ अतस्तै रहिता येऽत्र, दृश्यन्ते धनपूरिताः । विज्ञेयास्तेऽपि राजेन्द्र !, निर्धनाः परमार्थतः ॥ २३६ ॥ तत्साधूनां पुनस्तानि, Jain Education Intl For Private & Personel Use Only Saw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy