________________
उपमितौ
॥५१४॥
"प्रामो, दृष्टनष्टं च जीवितम् । चला विभूतयः सर्वा, देहश्च क्षणभङ्गुरः ॥ २१९ ॥ शत्रुः प्रमादो जीवानां, दुस्तरः पापसञ्चयः। बुधसुरि"असंयतत्वं दुःखाय, भीमो नरककूपकः ॥२२० ॥ अनित्याः प्रियसंयोगा, भवन्त्यप्रियसङ्गमाः । क्षणरक्तविरक्ताश्व, योषितो मित्र- कथितं | "बान्धवाः ॥ २२१ ॥ उग्रो मिथ्यात्ववेतालो, जरा करविवर्तिनी । भोगाश्चानन्तदुःखाय, दारुणो मृत्युभूधरः ॥ २२२ ॥” एतत्सर्व-10 संसारिमनालोच्य, कृत्वा पादप्रसारिकाम् । विवेकचक्षुः संमील्य, स्वपन्ति ननु जन्तवः ॥ २२३ ॥ महाघुरघुरारावं, कुर्वन्तो नष्टचेतनाः ।। स्वरूपं कथञ्चिन्न प्रबुध्यन्ते, शब्दैरपि विवेकिनाम् ।। २२४ ॥ विबुद्धा अपि कृच्छ्रेण, धूर्णमानेन चक्षुषा । भूयो भूयः स्वपन्त्येव, ते महामो-| हनिद्रया ॥ २२५ ।। अन्यच्च-कुतो वयं समायाताः?, प्रापिताः केन कर्मणा? । कागताः ? क च यास्यामो?, विदन्त्येतन्न मूढकाः | ॥ २२६ ॥ ततो यद्यपि दृश्यन्ते, वल्गमानाः पृथग्जनाः । तथापि तत्त्वतो भूप!, विज्ञेयाः प्रचलायिताः ॥ २२७ ॥ साधूनां पुनरेषा भो!, महामोहतमोमयी । निद्रा नास्त्येव धन्यानां, तेन ते नित्यजागराः ॥ २२८ ॥ सर्वज्ञागमदीपेन, साधवस्ते महाधियः । गत्यागती प्रपश्यन्ति, स्वस्यान्येषां च देहिनाम् ।। २२९ ।। ततश्च ते बहिन्द्रिया भूप!, सुप्ता अपि कथञ्चन । असुप्ता इति विज्ञेया, विवेकोन्मीलितेक्षणाः ॥ २३० ॥ इदमेव मया सर्व, संचिन्त्य हृदये पुरा । यूयं भोः! प्रचलायध्वे, नाहमित्येव भाषितम् ॥ २३१ ॥ तथायूयमेव न जानीथ, स्वरूपं मोहनिद्रिताः । मम प्रत्यक्षमेवेदं, विवेकस्फुटचक्षुषः ॥ २३२ ॥ अन्यच्चैवं व्यवस्थिते-ये सद्धर्मबहिर्भूतास्त एव परमार्थतः । देहिनो भूप! विज्ञेया, दारिद्र्याक्रान्तमूर्तयः ॥ २३३ ॥ तथाहि-ज्ञानदर्शनचारित्रवीर्यादीनि नरेश्वर । न सन्ति भावरत्नानि, तेषां पापहतात्मनाम् ॥ २३४ ॥ तान्येव धनसाराणि, तान्येवैश्वर्यकारणम् । तान्येव सुन्दराणीह, तैर्विना कीदृशं धनम् ?
|| ५१४॥ ॥ २३५ ॥ अतस्तै रहिता येऽत्र, दृश्यन्ते धनपूरिताः । विज्ञेयास्तेऽपि राजेन्द्र !, निर्धनाः परमार्थतः ॥ २३६ ॥ तत्साधूनां पुनस्तानि,
Jain Education Intl
For Private & Personel Use Only
Saw.jainelibrary.org