SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ बुधसुरि कथितं | संसारिस्वरूपं उपमितौलं च कुटुम्बकम् ।। २००॥ अदृष्टपरमार्थानामत्यन्तं मनसः प्रियम् । तत्त्वमूतमिदं तेषां, मूढानां प्रतिभासते ॥२०१॥ ततस्तदर्थ प. ५-प्र. क्लिश्यन्ते, दासाः कर्मकरा यथा । रात्री दिवा च मोहेन, पशुभूता वराककाः ॥ २०२॥ आहारयन्ति न स्वस्था, रात्रौ निद्राविव- |र्जिताः । चिन्तयाऽऽकुलिता नियं, धनधान्यपरायणाः ॥ २०३ ॥ तदेवं ते कुटुम्बस्य, सदैवादेशकारिणः । परायत्ता न जानन्ति, पर॥५१३॥ मार्थममेधसः ॥२०४॥ तथाहि-माता भ्राता पिता भार्या, दुहिता पुत्र इत्यपि । सर्वेऽपि जन्तवो जाता, नरादिभवचक्रके ।। २०५॥ ततो विज्ञातसद्भावः, को हि नाम सकर्णकः । तदायत्तो भृशं भूत्वा, खकार्य हारयेन्नरः ॥ २०६ ॥ अत एव महात्मानस्तत्कलत्रादिपश्चरम् । संपरित्यज्य निःशेष, जाता निःसङ्गबुद्धयः ॥ २०७॥ त एव छपरायत्तास्त एव कृतिनो नराः। त एव स्वामिनो भूप!, सर्वस्य जगतोऽनघाः ॥ २०८ ॥ गुरूणां ते परायत्ता, भवन्तोऽपि महाधियः । निर्मुक्ता गृहपाशेन, तस्मादत्यन्तमुत्कलाः॥२०९॥ इदं च हृदये कृत्वा, कारणं मानवेश्वर!। यूयमुक्ताः परायत्ता, मयाऽऽत्मा तद्विलक्षणः ॥२१०॥ तथा ये च तेऽष्टौ मया पूर्वमृणिकाः संप्रकाशिताः। विद्धि तान्यष्ट कर्माणि, दुःखदानीह देहिनाम् ॥ २११ ॥ (तैश्वामी) सततं जीवाः, कदर्थ्यन्ते मुहुर्मुहुः । दानग्रहणिकैर्भूप!, कर्मभिस्तीवदारुणैः ।। २१२ । बुभुक्षिताः कचिद्दीना, धायेन्तेऽत्यन्तविह्वलाः । कचिद्गाढं प्रपीड्यन्ते, क्षिप्त्वा नरककोष्टके ॥ २१३ ॥ साधूनामपि ते सन्ति, ऋणिकाः किं तु नो तथा । कदर्थनं प्रकुर्वन्ति, शुद्धप्रायमृणं यतः ॥ २१४ ॥ शोधयन्ति च ते | नित्यं, साधवः कृतनिश्चयाः। ऋणं तत्तेन ते तेषामृणिका नैव बाधकाः ॥ २१५ ॥ ऋणार्दिता मया पूर्व, यूयमेतेन हेतुना । प्रोक्ता भूप! तथाऽऽत्मा च, ऋणमुक्तः प्रकाशितः ॥ २१६ ॥ यथा च प्रचलायम्ते, मावतोऽमी नरेश्वर! । जैनधर्मबहिर्भता, जन्तवस्तन्निशामय ।। २१७॥"दुरन्तः कर्मसन्तानो, घोरः संसारसागरः । रौद्रा रागादयो दोषास्तरलं देहिनां मनः॥२१८ ॥ चटुलश्चेन्द्रिय 545555 ॥५१३॥ Jain Education For Private & Personal use only Kiww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy